________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रामे यस्मिन् बहवो घूका विचरन्ति तत्र निजचकम् । कथयन्ति दिवा दृष्टाः कृतस्वरा वाममृतये तौ ॥ २२ ॥ भैरवा दक्षिणारावा शुभा वामरवा शिवा । प्रशस्या विपरीता च कष्टोद्वेगौ ददाति सा ॥ २३ ॥ सर्वथा जम्बूकी त्याज्यो-भयथा कैश्चिदुच्यते । एतन्नैव शुभा वामा शशकोऽपीदृशो मतः ॥ २४ ॥ भैरवा वामशब्दादौ दक्षिणा स्यात्ततो यदि । कष्टं विधाय मयं तं निर्वाणे कार्यकारका ॥२५॥ कौशिके दक्षिणे भूत्वा पश्चाद्वामस्वरो यदि । अतीवकष्टं दत्वा स निर्वाणे कष्टविघ्नहा ॥२६॥ पिङ्गलाफेरुजम्बूक्यो वृको घूकोऽह्नि शन्दिताः । निशि तित्तिरिशब्दाश्च जगदुद्वासहेतवः ॥२७ ।।
इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे
रात्रेयप्रकरणं सप्तमं समाप्तं ॥ श्रीरस्तु ॥७॥ अथ हरिणःभाग्येन भूयसा गौरा हरिणा यान्ति दक्षिणाम् । विषमा यान्ति वामाङ्गे सकृष्णास्तेऽपि शोभनाः॥१॥ उत्तीर्य दक्षिणे आदौ पश्चाद्वामेऽतिनिन्दिताः । कैश्चित्कृष्णो मृगश्चैव कैश्चित्सर्वोऽपि नादृतः ॥२॥
For Private and Personal Use Only