________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पितृमावृविनाशाय समीपे श्वशुरौकसः । वधूश्वश्वोः पुत्रपित्रो-रेकवासनिवारकाः ॥३॥ युग्मं ।। क्षेत्र यातुः कृषिकस्य विना वृष्टि रुजे वृकाः । क्षेत्रमध्ये विलुठन्तो दुर्मिनानर्थसूचकाः ॥४॥ यद्यग्रे मेघवृष्टिश्चे-ज्जाता भवति वामगाः । तदा कृषिवलिवई-वृद्धिदाः कषु कस्य ते ॥५॥ दक्षिणागे उत्तरन्तः पूर्ण कृत्वा कृषि वृकाः ।। विनाशयन्ति तां पश्चा-चौरराजमयादिना ॥६॥ दर्शने तु यदा वृष्टे रौति दीर्घस्वरो वृकः । तदा यग्निभयं ज्ञेयं पृष्ठेऽपि पृष्ठशोकदः ॥७॥ पूर्व गृहीते व्यापारे ग्रामे वा गच्छतो वृक्षः । प्रमाणपदवीं वामे प्रापयत्युत्तरन् भृशम् ॥८॥ उत्तरन् दक्षिणे ग्रामं व्यापारं वा विचालके । विनाशयति स्वस्थाने कृतकृत्यस्य गच्छतः ॥६॥ सद्रव्यस्य द्रव्यनाशं निद्रव्यस्यार्थलाभदः ।। चौरस्य स्वामिनो वार्थः परार्थग्रहणाय चेत् ॥१०॥ गच्छतो वाममुत्तीर्य सुखान्वेषी फलप्रदः । भवेद्बकाणां शकुनो दीप्ते सर्वत्र शोभनः ॥११॥
त्रिभिर्विशेषकं ।।
For Private and Personal Use Only