________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
वामे चटन्ती भक्तान्त--विषप्रायभयाय सा । वस्त्रास्थिता वह्निभीति कुरुते गृहगोधिका ॥५१॥ स्थानस्थस्य सुताजन्म शय्यायां पुत्रजन्मदा । सकुटीमध्यगा पार--दारिकदूषणाय सा ॥५२॥ चटिता मस्तके यस्य चिरं तिष्ठति पल्लिका । निर्वाणं तस्य चटित--मात्रोत्तीर्णापि कष्टदा ॥ ५३ ॥ यस्य स्थानोपविष्टस्य चरणं वा तदंगुलिम् । दशत्यत्यंतकष्टाय स्वरचेष्टाथ कथ्यते ॥५४॥ पल्लिकाया गृहद्वारे स्वरोऽतिथिसमागमम् । कुस्ते स्वस्थचित्तस्य पृष्ठे चौरदरं स्वरः ॥ ५५ ॥ गृहदेवालये पल्ली ध्वनिता व्यंतरादिकाम् । दोषशकां समाख्याति धनकेऽग्निभीतये ॥ ५६ ॥ ब्रह्मणि सुप्तस्य यदा रौति सुवीरस्य वीरभयहन्त्री । नृपतिप्रसादवर्धा--पनिकां शान्तस्य सदा वक्ति ।। ५७ ॥ पल्लीद्वयं त्रयं वा दिशि जनपदविडवरं रटत्कुरुते । दिशिप्रधाननरकष्ट--कारकं विदिशि तुच्छफलम् ॥ ५८॥ दुग्धस्थाल्युपरिस्था घिरोलिका चतुष्पदस्य रोगाय । ध्वनिता चुतस्य शकुनं यात्रायां सर्वप्राप्यशुभम् ॥ ५९ ।। पूर्व शकुनं भव्यं जुतमथ पूर्व क्षुतस्ततो भव्यं । द्विविधमपि न प्रमाणं क्षुतमेव परं प्रमाणं तु ॥ ६ ॥
For Private and Personal Use Only