________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीलकृष्णाम्बरधरो नरः स्त्रीवनमिद्धये । मेघवृष्टिनिमित्तं तु कुरुते मेघवर्षणम् ॥४० ।। पट्टसूत्रं शुभं कृष्ण-मप्यन्यन्निन्यतेऽसितम् । भण्डविज्ञानकुशला स्त्री नरो वा विगहितौ ॥४१॥ पित्तादितो विकलाङ्ग–विटौ यानेऽतिनिन्दिताः। बधिर सम्मुखो जातो जल्पितः कुरुते फलम् ॥४२॥ मुकः कार्य वाच्यमाने-~-ऽपशब्दाय भवेदलम् । पाणिपादश्रवोनाशा-भ्रष्टा गतिनिवारकाः ॥४३ ॥ यानकाले ह्यगढक--गजाज्ञाकलहादिकम् । अस्तु दूरे कार्यसिद्धि--बन्धनादि प्रयच्छति ॥४४॥ गतिमङ्गोङ्गसादश्च स्खलनं पाणिपादयोः । द्वारघातादिवस्त्राणां लगनं न हि सुन्दरम् ॥४५॥ गृहाण धूलिभस्मादी--त्यादिवाक्यं निषेधकम् । प्रियं वदच्छुभं डिम्भं विवस्त्रं विमुखं न हि ।। ४६ ॥ विवादे गच्छतां द्रम्मा--नादायागच्छ वेगतः । क्षेमं करोति शब्दोऽयं परं किश्चिद्भयावहम् ॥४७॥ सम्मानी च मन्थानः काष्टं क्रकचमस्थिला। विषं लोहं सितारा च सम्मुखानि शुभानि न ॥४८॥ लोहकारायुधं सर्व सम्मुखं निन्दितं सदा । अथ कश्चिद्वदत्येत- -दादाय व्रजतः शुभम् ॥ ४६॥
For Private and Personal Use Only