________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गायन्तश्च हसन्तश्च नृत्यन्तो मृत्युदायकः । हस्ताद्धस्तं पृष्टहस्तं यच्छन्तो भयभञ्जनाः ॥१७॥ स्नानान्ते पतनपरा दोषमुच्छिष्टतां भयम् । कथयन्ति महापापं स्वादन्तो खाद्यमुत्तमाः ||१८|| जय जीव तथा नंद सुखं तिष्ठ स्थिरीभव । इत्यादि वचनं तेषां सर्ववाञ्छितदायकम् ॥१६॥ पत गच्छ म्रियस्वेति वचन दुःखदं पुनः । शुमा शुभकरी चेष्टा दुश्चेष्टैषा न शोभना ॥२०॥ तेषां च प्रतिमाः स्वर्ण-रूप्यरत्नविनिमिताः। धातुश्वेताश्ममययश्च स्वप्ने दृष्टाः सुखावहाः ॥२१॥ अस्थिकाष्ठदृषदन्त-लोहलेप्यक्षताश्च ताः । भग्ना व्यङ्गा दुःखकग ग्रन्थिमत्यो न शोभनाः॥२२।। स्वेदनिलोठरुदन-रक्तोद्गारस्मितान्विताः । गीतनृत्यकम्पयुक्ता मृत्य्वापदुःखदायकाः ॥२३॥ दुःस्थानकस्थिताः पूजा कान्ति प्रतिमा ध्रुवम् । अपूजा भ्रष्टगेहाश्च तद्भशं कथयन्ति ताः ॥२४॥ पितरो मृततुल्याश्च प्रहृष्टाः श्वेतवाससः । सभूषणाः शुभाचाराः स्वप्ने कुशलकारिण ॥२५।। स्युः श्राद्धकाक्षिणः क्षामा नग्ना वसनकारिणः । श्मशानवनमध्यस्था याचन्ते स्थानमात्मनः ॥२६॥
For Private and Personal Use Only