________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अहंम् ॥ तपोमृतिपूज्याचार्यदेव श्रीविजय कग्सरिभ्यो नमः श्रीरुद्रपल्लीमगच्छीयाचार्य श्रीवर्धमान सूरिविरचितः || श्रीस्वप्रपदीपः (स्वात्मा व बोध जस्वप्नाधिकारः) ॥
॥ अथ दैवतस्वप्नविचाररूप. प्रथम उद्योतः ॥
परमात्मावबोधजम् ।
परात्मानं नमस्कृत्य पूर्व शास्त्रानुरोधेन किश्चित्स्वप्नफलं ब्रुवे ॥१॥ स्वप्नचतुविधः प्रोक्तो देवः स्वानुभवप्रजः । धातुप्रकोपजश्चैव चिन्तोद्भूतश्चतुर्थकः ॥२॥ graat aaraart frष्फलौ द्वौ दिवानिशम् । आयः सदा द्वितीयस्तु निशि सौख्यस्थितस्य च ॥३॥ देवयक्षादयो विप्रा गावो राजा च लिङ्गिनः । पितरो देवमूर्तिश्व वाक्चेष्टेपां च दैवतम् ॥४॥ सुखस्थस्य महास्वप्नः पूर्वकर्मानुसारतः । यो भाविकः स्वप्नः स ज्ञेयः स्वानुभावजः ॥५॥ वातपित्तमल श्लेष्म - मूत्रमालिन्यरोगजः दुःशय्यादिभवः स्वप्नः स ज्ञेयो दोषजोऽफलः ॥ ६॥
|
For Private and Personal Use Only