________________
सप्तमो नर्तनाध्यायः तलेन भूमिलनेन पादस्य सरणं पुरः । तथापसरणं पश्चान्मुहुः सिरिपटो भवेत् ।। १३०८ ॥
इति सिरिपटः (३) द्वयोश्चरणयोयोनि पर्यायेण प्रकम्पनम् । यत्कृतं कोमलं सोऽत्रालगपाटः प्रकीर्तितः ॥ १३०९ ।।
इत्यलगपाटः (४) सत्येकस्मिन्समे पादेऽनिः पुरः प्रेरितो भवेत् । यस्तस्य जपया कम्पः प्रोक्तः सिरिहिरो बुधैः ।। १३१० ॥ यद्वा द्वयोः स्वभावेन तिष्ठतोः पादयोर्भुवि । जङ्घयोः कम्पनं पाहु/राः सिरिहिरं तदा ॥ १३११ ॥
इति सिरिहिर: (५) (सु०) सिरिपटं लक्षयति-तलेनेति । यत्र भूमिलग्नेन पादतलेन मुहुः पुरः सरणं, तथा अपसरणं च क्रियते ; स सिरिपटः ॥ १३०८ ॥
इति सिरिपट: (३) (सु०) अलगपाट लक्षयति-द्वयोरिति । यत्र द्वयोः चरणयोः माकाशे पर्यायेण कोमलं चलनं कृतं भवेत् ; सोऽलापाटः ॥ १३०९ ॥
इत्यलगपाटः (४) (सु०) सिरिहिरं लक्षयति-सत्येति । यत्र एकस्मिन् पादे समे, अधिः पुरः प्रेरितो भवेत् । अन्यस्य न्यस्ते जङ्घयोः कम्पन ; स सिरिहिरः । मतान्तरमाह-यद्वेति । यदा द्वयोः पादयोः स्वभावेन भुवि तिष्ठतोः यत्र जङ्घयोः कम्पनं क्रियते ; तदा सिरिहिरो भवति ॥ १३१०, १३११ ॥
इति सिरिहिरः (५)
Scanned by Gitarth Ganga Research Institute