________________
२७२
संगीतरनाकरः नितम्ब करणं कृत्वा कुर्यात्स्वस्तिकरेचितम् ॥ ८७५ ॥ विक्षिप्ताक्षिप्तकमथो लतावृश्चिकसंज्ञकम् । उन्मत्तं करिहस्तं च भुजङ्गत्रासितं ततः॥ ८७६ ॥ आक्षिप्तकं नितम्बं च नितम्बान्तान्यमून्यथ । नव भ्रमरकाख्येण परिवृत्तं समाचरेत् ।। ८७७ ॥ दिगन्तरमुखे कृत्वा व्यावत्य परयोर्दिशोः । करिहस्तकटीछिन्ने कुर्यादाद्यदिशि स्थितः ।। ८७८ ॥ यत्र तं प्राहुराचार्याः परिवृत्तकरेचितम् । परिवृत्तविधिश्चायं त्यक्त्वान्त्यं करणद्वयम् ॥ ८७९ ।। सर्वेषामङ्गहाराणां शादेवेन सूरिणा । भट्टाभिनयगुप्तादिमतज्ञेन निगद्यते ॥ ८८० ॥
इति परिवृत्तकरेचितः (१३)
च्छिन्नमिति षट्करणानि क्रमेण यत्र भवति । स परावृत्तः । अङ्गस्य नमनोन्नमनमेव निकुट्टकमित्युच्यते ।। ८७३, ८७४- ।।
इति परावृत्तः (१२) (सु०) परिवृत्तकरेचितं लक्षयति-नितम्बमिति । नितम्बम् , स्वस्तिकरेचितम्, विक्षिप्ताक्षिप्तकम् , लतावृश्चिङ्गम्, उन्मत्तम् , करिहस्तम् , भुजङ्गात्रासितम् , आक्षिप्तकम् , नितम्बमेतानि नव भ्रमरीयुक्तां यदा कुर्यात् , दिगन्तराभिमुखः स्थित्वा, अन्यदिशोरावृत्त्या, आद्यदिशि करिहस्तं कटीच्छिन्नं च कुर्यात् ; तदा परिवृत्तरेचितम् । अत्र अन्त्यकरणद्वयं त्यक्त्वा अयं परिवृत्तविधिः सर्वेष्वङ्गहारेषु आवश्यक एवेति ॥ -८७५-८८० ॥
इति परिवृत्तकरेषितः (१३)
Scanned by Gitarth Ganga Research Institute