SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६१ सप्तमो नर्तनाध्यायः नूपुराक्षिप्तकच्छिन्नसूचीन्यथ नितम्बकम् । करिहस्तं च करणमुरोमण्डलकं ततः ॥ ८१७ ॥ फटीछिममिति प्रोक्तः करणैर्भमरोऽष्टभिः । __ इति भ्रमरः (७) कृत्या नूपुरविक्षिप्तालातान्याक्षिप्तकं ततः ।। ८१८ ॥ उरोमण्डलसंज्ञं च नितम्ब करिहस्तकम् । कटीछिन्नं च करणैरेभिराक्षिप्तकोऽष्टभिः ॥ ८१९ ॥ विक्षिप्तालातकाक्षिप्तप्रयोगं द्विः परे जगुः । इस्याक्षिप्तकः (८) कृत्वा समनखं छिन्नं संभ्रान्तमय वामतः ॥ ८२० ॥ भ्रमरं वामपार्धिसूच्यविक्रान्तसंज्ञकम् । (सु०) भ्रमरं लक्षयति-नूपुरेति । यत्र नपुरम् , आक्षिप्तम् , छिन्नम् , सूचि, नितम्बम् , करिहस्तम् , उरोमण्डलम् , कटीच्छिन्नमित्यष्टभिः करणैः क्रमादुपलक्षितो भ्रमरो भवति ॥ ८१७, ८१७-॥ इति भ्रमर: (७) (सु०) आक्षिप्तकं लक्षयति-कृत्वेति । यत्र नपुरम् , विक्षिप्तम् , अलातम् , आक्षिप्तम् , सत उरोमण्डलम् , नितम्बम् , करिहस्तकम् , कटीच्छिन्नमिति करणाष्टकं क्रमेण वर्तते, स आक्षिप्तकः । अत्र विक्षिप्तमलातमाक्षिप्तं च करणं द्विःप्रयोज्यमिति केचिदाहुः ॥ -८१८, ८१९-॥ इत्याक्षिप्तकः (6) (सु०) परिच्छिन्नं लक्षयति-कृत्वेति । यत्र प्रथमतः समनखम् , ततः छिन्नम् , संभ्रान्तम् , वामतो भ्रमरम्, वामतैवार्धसूचि, अतिक्रान्तम् , Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy