SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २३४ संगीतरनाकरः एडकाक्रीडिता चारी चेडोलाखटकौ करौ । संनतं वलितं गात्रमेडकाक्रीडितं तदा ॥ ७२५ ॥ अधमप्रकृतिमाणिगतिगोचरमिष्यते । इत्येडकाक्रीडितम् (११) चारी चेजनिता मुष्टिवक्षस्थोऽन्यो लताकरः ॥ ७२६ ॥ यदा तदा क्रियारम्भाभिनये नितं भवेत् । इति जनितम् (९४) भाक्षिप्तां वामतधारी व्यावृत्तपरिवर्तितम् ॥ ७२७ ॥ करं कृत्वा नते पार्चे दक्षिणेऽरालतां नयेत् । यत्र तत्स्यादुपसृतं विनयेनोपसर्पणे ॥ ७२८ ॥ इत्युपसृतम् (९५) (सु०) एडकाक्रीडितं लक्षयति-एडकेति । यत्र प्रथमम् एडकाक्रीडिता चारी क्रियते; ततो डोलाखटकौ हस्ती, गात्रं संनतं वलितं च भवति । तत् एडकाक्रीडिताख्यं करणं भवति । तच्च अधमप्रकृतिप्राणिगतिगोचरे कार्यम् ॥ ७२५, ७२५- ॥ इत्येडकाकोडितम् (९३) (सु०) जनितं लक्षयति-चारीति । यत्र जतिता चारी, एको हस्तो मुष्टितामेत्य वक्षःस्थो भवति, अन्यो हस्त: लताकरो भवति ; तत् जनिताख्यं करणं भवति । तच्च क्रियारम्भाभिनये प्रयोज्यम् ॥ -७२६, ७२६- ॥ इति जनितम् (९४) (सु०) उपसृतं लक्षयति-आक्षिप्तामिति । यत्र वामे आक्षिप्ता चारी क्रियते; ततो हस्त: व्यावृत्तपरिवर्तितो भूत्वा आस्ते, दक्षिणापावें Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy