________________
२३२
संगीतरत्नाकरः
अभ्येत्याथेत्थमन्याङ्गं यत्र तत्स्खलितं मतम् ।। ७१६ ॥
इति स्खलितम् (८८)
कृत्वालातां पुरोऽङ्घ्रि चेद् द्रुतं न्यस्य चपेटवत् । कृतो हस्तस्तथान्याङ्गं सिंहविक्रीडितं तदा ।। ७१७ ॥ एतद्रौद्रगतौ योज्यं ब्रूते श्रीकरणाग्रणीः ।
इति सिंहविक्रीडितम् (८९)
वृश्चिकोऽङ्घ्रिः पद्मकोशौ वोर्णनाभौ यदा करौ ॥ ७१८ ॥ अन्याङ्घ्रौ वृश्चिके पाञ्चौ भङ्क्त्वा तौ तादृशौ पुनः । कृतौ सिंहाभिनयने सिंहाकर्षितकं तदा ।। ७१९ ।।
इति सिंहाकर्षितम् (९०)
;
अङ्घ्रिणा गमनागमने हंसपक्षाख्यः करः चरणानुगतो भवति तदा स्खलिताख्यं करणं भवति ॥ ७१६ ॥
इति स्खलितम् (८८)
(सु० ) सिंहविक्रीडितं लक्षयति-- कृत्वेति । यत्र अलाताख्यां चा कृत्वा, अङ्घ्रिः पुरःप्रदेशे द्रुतं न्यस्यते, हस्तः चपेटाकारः कृतो भवति ; तथा अन्याङ्गमप्येवं क्रियते, तत्र सिंहविक्रीडिताख्यं करणं भवति । तच्च रौद्रगतौ योज्यम् ॥ ७१७, ७१७- ॥
इति सिंहविक्रीडितम् (८९)
(सु० ) सिंहाकर्षितं लक्षयति- वृश्चिक इति । यत्र वृश्चिकाख्यश्चरणः, करौ पद्मकोशौ ऊर्णनाभौ वा भवतः । अन्याङ्घ्रौ वृश्चिके सति, पूर्वकृतौ करो भङ्क्त्वा, पुनस्तादृशावेव करौ क्रियेते; तदा सिंहाकर्षिताख्यं करणं भवति । तच सिंहाभिनयने प्रयोज्यम् ॥ - ७१८, ७१९ ॥
इति सिंहाकर्षितम् (९०)
Scanned by Gitarth Ganga Research Institute