________________
२३१
सप्तमो नर्तनाध्यायः बद्धापक्रान्तयोश्चार्योः कृतयोईस्तयोः पुनः । तत्तत्प्रयोगानुगयोरपक्रान्तमुदाहृतम् ।। ७१३ ॥
इत्यपकान्तम् (८६) अधोमुखागुली हस्तौ पताको चेच्छिरःस्थलम् । भानीय परिवृत्तेन निष्क्रम्योर्चासयोस्तयोः ॥ ७१४ ॥ मिथोमुखाववस्थाप्य स्वदेहाभिमुखाङ्गुली । नितम्बाख्यौ विधीयेते नितम्बं करणं तदा ॥ ७१५ ।।
इति नितम्बम् (८७) होलापादाद्भिगमनागमने हंसपक्षकः ।
भवति । तदिगवस्थित एकश्चरणो भूमिं घर्षयेत्, अन्यश्चरणो मन्दं मन्दं चार्यते, अन्यो हस्तो लताकरो भवति । तत्र प्रसर्पिताख्यं करणं भवति । तच्च खेचरसंचारे कार्यम् ॥ -७११, ७१२ ॥
इति प्रर्पितम् (८५) (सु०) अपक्रान्तं लक्षयति-बिद्धेति । बद्धापक्रान्ताख्यचारीद्वयं यत्र क्रियते, हस्तद्वयमपि तत्प्रयोगानुसारि भवति, तत्र अपक्रान्ताख्यं करणं भवति ॥ ७१३ ॥
इत्यपक्रान्तम् (८६) (सु०) नितम्बं लक्षयति-अधोमुखेति । यत्र अधोमुखा अङ्गुलयो ययोः, तथाविधौ पताकाख्यौ करौ शिरःप्रदेशं प्राप्य, परिवृत्तेन अंसयोरूर्व निष्क्रम्य मिथोमुखमवस्थाप्य, तदेव स्वदेहाभिमुखालीकं नितम्बीक्रियते, तत् नितम्बाख्यं करणं भवति ॥ ७१४, ७१५ ॥
इति नितम्बम् (८५) (सु०) स्खलितं लक्षयति-डोलेति । यत्र डोलापादाख्या चारी ।
Scanned by Gitarth Ganga Research Institute