SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २२९ हस्तौ चेद्रेचिताकारौ वृश्चिकाघि निकुञ्च्य च ॥ ७०५ ॥ भ्रमरी क्रियतेऽन्वर्थ मयूरललितं तदा । इति मयूरललितम् (८०) डोलापादाख्यचारीकादङ्ग्रेन्याघ्रिणा यदा ॥ ७०६ ॥ उत्प्लुत्य भ्रमरी कुर्याद्भवेत्प्रेखोलितं तदा । इति प्रेडोलितम् (८१) कृत्वा मृगप्लुतां चारी कृतोऽधिः स्वस्तिकोऽग्रतः ॥७०७॥ डोलौ हस्तौ संनतं तदधमापसृतौ भवेत् । इति संनतम् (८२) चारी; ततो दण्डपादाख्या ; हस्तश्च शीघ्रं दण्डवत् न्यस्यते, तत् दण्डपादाख्यं करणं भवति । तच्च साटोपपरिक्रमे प्रयोज्यम् ॥ ७०४, ७०४-॥ इति दण्डपादम् (७९) (सु०) मयूरललितं लक्षयति-हस्ताविति । यत्र हस्तौ रेचितौ विधाय, वृश्चिकपादं निकुञ्च्य संकोच्य, भ्रमरी चारी च यत्र क्रियते ; तत्र अन्वर्थनामकं मयूरललिताख्यं करणं भवति ॥ -७०५, ७०५- ॥ __इति मयूरललितम् (८०) (सु०) प्रेखोलितं लक्षयति-डोलेति । एकाघिणा दोलापादाख्या चारी यस्मिन् , तथाविधात् अङ्ग्रेः अन्येन चरणेन यदा उत्प्लुत्य भ्रमरी क्रियते ; तदा प्रेखोलिताख्यं करणं भवति ॥ -७०६, ७०६-॥ इति प्रलोलितम् (८१) ___(मु०) संनतं लक्षयति-कृत्वे ति । यत्र मृगप्लुताख्यां चारी कृत्वा, अप्रतः अघिः स्वस्तिकः क्रियते, हस्तौ च डोलाख्यौ क्रियेते, तदा संनताख्यं करणं भवति । तच्च अधमापसृतौ प्रयोज्यम् || -७०७, ७०७- ॥ इति संनतम् (८२) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy