________________
२२७
सप्तमो नर्तनाध्यायः उत्क्षिप्य कुश्चितः पादः पात्यते भूमिमस्पृशन् । खटकाख्यश्च तदिको हस्तो वक्षस्यथापरः ।। ६९८ ।। अलपद्मः शिरोदेशे तथैवाङ्गान्तरं क्रमात् । यत्र तच्छाईदेवेन गदितं सूचि विस्मये ॥ ६९९ ।।
इति सूचि (७४) सूच्येवैकाङ्गरचितमर्धसूचि प्रचक्षते ।
इत्यर्धसूचि (७५) पक्षवश्चितको वार्धचन्द्रो हस्तः कटीगतः ॥ ७०० ॥ खटकाख्योऽपरो वक्षस्यन्यपाणिस्थितोऽपरः । सूच्यधिश्चेत्तदा सूची विद्धं चिन्तादिगोचरम् ।। ७०१ ॥
इति सूचीविद्धम् (७६) (सु०) सूचि लक्षयति-उत्क्षिप्येति । यत्र चरणमूर्ध्वमुत्क्षिप्य भूमिस्पर्शनं विनैव कुञ्चितं च कुर्यात् । तदिशि वर्तमानो हस्त: खटकामुखो वक्षसि भवति । अथ अपरः करः अलपद्मतामेत्य शिरःप्रदेशगतो भवति । एवमेव अङ्गान्तरमपि कृतं चेत् ; तदा सूच्याख्यं करणं भवति । तच्च विस्मये प्रयोज्यम् ॥ ६९८, ६९९ ॥
इति सूचि (७४) (सु०) अर्धसूचि लक्षयति-सूचीति । एकाङ्गरचितं सूच्येव अर्धसूच्याख्यं करणं भवति ॥ ६९९-॥
___ इत्यर्धसूचि (७५) __ (सु०) सूचीविद्धं लक्षयति-पक्षवञ्चितक इति । यत्र एक: करः पक्षवञ्चितको वा अर्धचन्द्रो वा कटीगामी भवति ; वक्षसि अन्यः करः खटकामुको भवति । अन्यचरणस्य पाणिप्रदेशे अन्यः चरणः सूची भवति
Scanned by Gitarth Ganga Research Institute