SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः चार्याविद्धाश्चितपदे पर्यायाचितः करः । यत्रोन्मत्तं तु तद्र्वे सौभाग्यादिसमुद्भवे ॥ ५९९ ॥ इत्युन्मत्तम् (१५) चतुरश्रः स्थितः कृत्वा हंसपक्षौ द्रुतभ्रमौ । व्यावृत्तिपरिवृत्तिभ्यामधश्वोर्च शिरःस्थलात् ॥ ६०० ॥ आनीयाविद्धवक्रौ चेद्वक्षसि स्वस्तिकौ कृतौ । विप्रकीर्णौ ततः कार्यों पक्षवश्चितको करौ ॥६०१॥ पक्षप्रयोतकौ पश्चाचारी तद्वशगा भवेत् । अन्तेऽवहित्यकं स्थानं तदा स्वस्तिकरेचितम् ॥ ६०२॥ नृत्ताभिनयने तच्च प्रहर्षादौ नियुज्यते । इति स्यस्तिकरेचितम् (१६) पादौ समनखाख्यौ, हरतौ च लतारूपो चेत् ; तदा समनखं करणम् । तच्च नृत्तस्य आदिमे प्रवेशे प्रयोज्यम् ॥ ५९८ ॥ इति समनखम् (१४) __ सु०) उन्मत्तं लक्षयति-चार्येति । आविद्धाख्यां चारी कृत्वा, चरणश्च अञ्चितः, करस्तु क्रमेण रेचितो भवति ; तदुन्मत्तं करणम् । तच्च गर्वे, सौभाग्यादिसमुद्भवे कार्यम् ॥ ५९९ ॥ इत्युन्मत्तम् (१५) ___ (सु०) स्वस्तिकरेचितं लक्षयति-चतुरश्राविति । चतुरधानन्तरं हंसपक्षी करौ व्यावृत्तिभ्यां शीघ्रम् अधश्चोर्ध्व शिरश्च भ्रामयित्वा, पादतलात् वक्षसि आनीय, आविद्धपक्षौ स्वस्किौ च कृत्वा, ततो विप्रकोणों सन्तो पश्चात् कटिप्रदेशे पक्षवञ्चितकौ, पक्षरद्योतकौ च कुर्यात् । चारी च तदनुगता Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy