________________
१९२
संगीतरनाकरः तलपुष्पपुटं लीनं वर्तितं वलितोरु च । मण्डलस्वस्तिकं वक्षःस्वस्तिकाक्षिप्तरेचिते ॥ ५५०॥ स्वस्तिकान्यर्धदिक्पृष्ठाद्यानि स्वस्तिकमश्चितम् ।। अपविद्धं समनखोन्मत्ते स्वस्तिकरेचितम् ।। ५५१ ॥ निकुटा निकुट्टे च कटीछिन्नं कटीसमम् । भुजङ्गत्रासितालातविक्षिप्ताक्षिप्तकानि च ।। ५५२ ॥ निकुश्चितं घूर्णितं स्यादूर्ध्वजान्वर्धरेचितम् । मत्तल्लि चार्धमत्तल्लि स्याद्रेचकनिकुट्टकम् ॥ ५५३ ॥ ललितं वलितं दण्डपक्षं पादापविद्धकम् । नूपुरं भ्रमरं छिन्नं भुजङ्गत्रस्तरेचितम् ।। ५५४ ॥ भुजङ्गाश्चितकं दण्डरेचितं चतुरं ततः । कटिभ्रान्तं व्यंसितं च क्रान्तं वैशाखरेचितम् ।। ५५५ ॥ वृश्चिकं वृश्चिकाये च स्यातां कुट्टितरेचिते । लतादृश्चिकमाक्षिप्तार्गले तलविलासितम् ॥ ५५६ ॥ ललाटतिलकं पार्थनिकुटुं चक्रमण्डलम् । उरोमण्डलमावर्त कुश्चितं डोलपादकम् ॥ ५५७ ॥ विवृत्तं विनिवृत्तं च पार्थक्रान्तं निशुम्भितम् । विद्युड्रान्तमतिक्रान्तं विक्षिप्तं च विवर्तितम् ।। ५५८ ॥
(क०) तद्भेदानुद्दिशति-तलपुष्पपुटमित्यादि । वक्षःस्वस्तिकाक्षिप्तरेचिते इति । वक्षःस्वस्तिकं चाक्षिप्तरेचितं चेति द्वन्द्वः । स्वस्तिकान्यदिक्पृष्ठावानीति । अर्धस्वस्तिकं, दिक्स्वस्तिकं, पृष्ठस्वस्तिकमिति त्रीणि करणानि । वृश्चिकाये कुट्टितरेचिते स्यातामिति । वृश्चिककुट्टितं
Scanned by Gitarth Ganga Research Institute