________________
सप्तमो नर्तनाध्यायः
१९१ स्यात्किया करपादादेविलासेनात्रुटद्रसा ॥ ५४८ ॥ करणं नृत्तकरणं भीमवीमसेनवत् ।
प्रभेदान्करणस्यास्य ब्रूमहे भरतोदितान् ॥ ५४९ ॥ यो रोदसीरङ्गे रोदम्यावेव रङ्गः, तस्मिन् करणैर्वक्ष्यमाणैस्तलपुष्पपुटादिभिः, अङ्गहारकैः स्थिरहम्तादिभिः नृत्यति, तमीशं नमामीति संबन्धः । अत्र करणातीतः करणैरिति, अनङ्गहारोऽङ्गहाररिति स्थाणुन यतीति विरोधालंकारो ध्वन्यते ॥ -५४७, ५४७- ॥
(सु०) एवं नृत्ताभिनयसाधरणीमङ्गमातृकामभिधाय साक्षात् नृत्तोपयोगीनीमङ्गसमुद्रायरूपाणि लिलक्षयिषुर्मङ्गलमाचरति-करणैरिति । तं परमेश्वरं नमामि । य: करणातीतः ; करणैः इन्द्रियैः अतीतः, अतीन्द्रिय इत्यर्थः । इन्द्रियागोचरो वा, अथवा क्रियाक्रिय इत्यर्थः । एवंविधोपकरणैः तलपुष्पपुटादिभिः नृत्यकरणैः; नृत्यकरणातीतोऽपि करणे: नृत्यतीति विरोधाभासः । भनङ्गहारः; अनङ्गं कन्दर्प हरति नाशयतीत्यनङ्गहारः । एवंविधोऽप्यङ्गहारैः वक्ष्यमाणैः करणसमुदायरूपैः नृत्यति । यस्तु अनङ्गहारः अङ्गहारशून्य स अङ्गहारैः नृत्यतीति विरोध: । रोदसीरङ्गे; रोदसी द्यावापृथिव्यौ, ते एव रङ्गो मण्डपः, तत्र स्थाणुः ; स्थिरो नियः, स्थाणुरचेतनोऽपि नृत्यतीति विरोधः । ननु कथमेतद्विरुद्धं संभवति? तत्राह-ईशमिति । कर्तुमकर्तुमन्यथा कर्तुं सार्थः, किं वा न करोतीत्यर्थः ॥ -५४७, ५४७- ॥
__ (क०) करणानां सामान्यलक्षणमाह-स्याक्रियेत्यादि। करपादादेरिति । आदिशब्देन शिरोवक्षःपार्श्वकटीनां बाहुजङ्घादीनां च ग्रहणम् । फिविधा क्रिया ? विलासेन ; अङ्गशोभया, अत्रुटदसा ; अत्रुटन्नच्छिद्यमानो रसः प्रेक्षकप्रीतिर्यस्यां सा तथोक्ता । एवं विशिष्टा करपादादेः क्रिया करणम् । तदेव नृतकरणं म्यात् । व्यपदेशद्वयसद्भावे दृष्टान्तमाहभीमवद्भीमसेनवदिति । संजैकदेशेनापि प्रसिद्धया व्यपदेशो भवतीत्यर्थः ॥ .५४८, ५४९ ॥
Scanned by Gitarth Ganga Research Institute