________________
१४९
सप्तमो नर्तनाध्यायः उत्कम्पोत्फुल्लतारा स्यात् त्रासे त्रस्तोद्भमत्पुदा ॥ ४२५ ॥
___इति त्रस्ता (१९) मदिरा त्रिविधा प्रोक्ता तरुणे मध्यमेऽधमे । मदे प्रयोगमहन्ती तत्तल्लक्ष्मसमन्विता ॥ ४२६ ॥ तीवो मदोऽधमोऽत्र स्यादधमे पुरुषे स्थितः । दृष्टिविकसितापाङ्गा क्षामीभूतविलोचना ॥ ४२७ ॥ आघूर्णमानतारा स्यान्मदिरा तरुणे मदे । किंचित्कुञ्चत्पुटा किंचिदनवस्थितचारिणी ॥ ४२८ ॥ दृष्टिः किंचिद्भमत्तारा मदिरा मध्यमे मदे । अधोभागचरी किंचिदृष्टतारा निमेषिणी ॥ ४२९ ।। यत्नेऽप्यसिद्धयदुन्मेषा मदिरा स्यान्मदेऽधमे।।
इति त्रिविधा मदिरा (२०) इति विंशतिव्यभिचारिदृष्टयः ।
(सु०) प्रस्तां लक्षयति-उत्कम्पेति । उत्कम्पितविकासिततारका दृष्टिः त्रस्ता । सा च त्रासे प्रयोज्या ॥ -४२५ ॥
इति त्रस्ता (१९) (सु०) मदिरां लक्षयति-मदिरेति । मदिरादृष्टिः त्रिविधा । सा च उत्तममध्यमाधमभेदात् । वक्ष्यमाणतत्तलक्ष्मभिः सहिता तेष्वेव मदेषु विनियोगमहन्ती । अत्र तीब्रो मदोऽधमः; स च अधमे पुरुषे स्थितो भवति । दृष्टिरिति । विकसितापागा; विकसितौ अपाङ्गौ यस्याः; क्षामीभूतविलोचना ; क्षामीभूते विलोचने यस्याः, आघूर्णमानतारा; आसमन्तात् घूर्णमाने भ्रामिते तारे यस्याम् ; तथाविधा मदिरादृष्टिः तरुणे मदे प्रयोज्या; किंचिन्नमितपुटा ; ईषन्नमितौ पुटौ यस्याः; ईषदनवस्थितसंचारा ; किंचिभ्रमत्तारा; ईषद्भ्रमणं प्रापिते तारे
Scanned by Gitarth Ganga Research Institute