________________
१४८
संगीतरत्नाकरः विकासितपुटद्वन्द्वा विकासिन्यनिमेषिणी ॥ ४२१॥ · अनवस्थिततारा च विकोशा कीर्तिता बुधैः । ज्ञानविज्ञानगर्वे सा स्यादमर्षे विमर्शने ॥ ४२२ ॥
इति विकोशा (१६) या तु कचिदविश्रान्तमविस्रब्धं विलोकने । विस्तीर्णा चञ्चलोत्फुल्लतारा सा दृष्टिरुच्यते ॥ ४२३ ॥ विभ्रान्ता विभ्रमे वेगे संभ्रमे च भवेदसौ।
इति विभ्रान्ता (१७) पुटौ विस्फुरितौ स्तब्धौ यस्याः स्तः पतितौ क्रमात् ॥४२४॥ सा विप्लुतातिदुःखादावुन्मादे चापले तथा ।
इति विप्लुता (१८) (मु०) विकोशां लक्षयति-विकासितेति । विकासितपुटद्वया, विकासवती अनिमेषा, अनवस्थिततारा च दृष्टिः विकोशा । सा च ज्ञानविज्ञानगर्वेषु, अमर्षे, विमर्श च प्रयोज्या ॥ -४२१, ४२२॥
इति विकोशा (१६) (सु०) विभ्रान्तां लक्षयति—या त्विति । या तु दृष्टिः ; अविश्रान्तम् ; अविस्रब्धम् , विलोकने ; विस्तीर्णा ; विस्तारवती, चञ्चलोत्फुल्लतारा ; चञ्चलेन विकसितकनीनिका, तथाविधा दृष्टिः विभ्रान्ता । सा च विभ्रमे, वेगे, ससंभ्रमे च प्रयुज्यते ॥ ४२३, ४२३-॥
इति विभ्रान्ता (१७) (सु०) विप्लुतां लक्षयति-पुटाविति । यत्र क्रमेण पक्ष्माणौ विस्फुरिती स्तब्धौ पतितौ च भवतः, सा विप्लुता । सा च आतिदुःखादौं, उन्मादे, चापले च प्रयोज्या ॥ -४२४-४२४-॥
इति विप्लुता (१८)
Scanned by Gitarth Ganga Research Institute