________________
१४६
संगीतरत्नाकरः
अनिष्टेऽसूयिते तेजो दुष्पेक्ष्येऽक्षिव्यथासु सा ।
इति कुञ्चिता (१०) उद्भामितपुटोत्फुल्लताराधःसंचरन्त्यपि ॥ ४१५ ॥ वितर्कितोदिता दृष्टिवितर्के साभिधीयते ।
इति वितर्किता (११) विलोकनालसे तारे व्यथाप्रचलितौ पुटौ ॥ ४१६ ॥ यस्याः संभ्रान्तवद्भान्ति साभितप्ताभिधीयते । निर्वेदे घेदितव्या साप्यभिघातोपतापयोः॥ ४१७ ॥
इत्यभितप्ता (१२)
कुश्चितानि; तारा च; कनीनिका च सम्यक् कुञ्चिता सा दृष्टिः कुञ्चिता । सा च अनिष्टे, अनभिप्रेते, असूयायाम् , तेजसा दुष्प्रेक्ष्ये सूर्यादौ ; अक्षिव्यथासु, नेत्रव्यथासु च प्रयोज्या ॥ ४१४, ४१४-॥
इति कुचिता (१०) (सु०) वितर्कितां लक्षयति-उद्भामितेति । उद्भामितपुटा ; उद्भ्रामितौ पुटौ यस्याः ; उत्फुल्लतारा; उत्फुल्ले तारके यस्याः ; अध:संचारिण्यपि विकासितकनीनिका दृष्टि: वितर्किता। सा च वितर्के प्रयोज्या ॥-४१५, ४१५॥
इति वितर्किता (११) (सु०) अभितप्तां लक्षयति-विलोकनेति । विलोकनविषये अलसं कनीनिकाद्वयं यत्र, व्यथया अत्यन्तचञ्चलौ, पुटौ यस्याः संभ्रान्तवत् भान्ति भासमाना सा दृष्टिः अभितप्ता | सा च निवेदे, अभिघाते, उपतापे च प्रयोज्या ॥ -४१६, ४१७ ।।
इत्यमितप्ता (१२)
Scanned by Gitarth Ganga Research Institute