SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः भ्रुकुटीकुटिलां दृष्टिं क्रुद्धां ब्रूते हरप्रियः ।। ३९८ ।। इति क्रुद्धा (४) समुद्गरती दृष्टा विकसिता स्थिरा । इति दृप्ता (५) मध्यनिर्गमनोयुक्तौ भावविस्फारितौ पुटौ ।। ३९९ ॥ तारके कम्पिते यस्याः सा स्याद्दृष्टिर्भयान्विता । इति भयान्विता (६) 'अस्पष्टालोकिनी मीलत्तारका संकुचत्पुटा ।। ४०० ॥ दृश्यं दृष्ट्वा समुद्विग्ना दृष्टिरुक्ता जुगुप्सिता । इति जुगुप्सिता (७) १४१ वृत्तौ पुटौ यस्याम् | रूक्षाम् ; निःस्नेहाम्; किंचित्तरलतारकाम् ; ईषत् तरले लोलिते तारके यस्याम् । भ्रुकुटीकुटिलाम्; भ्रुकुट्या वक्रीकृतां दृष्टि कुद्धामिति हरप्रियः शार्ङ्गदेवो ब्रूते ॥ ३९८ ॥ इति क्रुद्धा (४) (सु० ) दृप्तां लक्षयति — सत्त्वमिति । संपद्विपदोः चेतसो विकारत्वं सन्त्वम् ; तत् उद्गिरन्ती दृष्टिः दृप्ता ॥ ३९८- ॥ इतिहप्ता (५) (सु०) भयान्वितां लक्षयति – मध्येति । मध्यनिर्गमनोद्युक्ता ; यस्या मध्यं निर्गमनाय उत्सुकमिव प्रतिभाति । यस्याः पुटौ पक्ष्माणौ, भावविस्फारितौ; भावानां विशेषेण प्रकाशं प्राप्तौ । यस्याः तारके कम्पिते; सा दृष्टिः भयान्विता ॥ - ३९९, ३९९-॥ इति भयान्विता (६) (सु० ) जुगुप्सितां लक्षयति — अस्पष्टेति । अस्पष्टालोकिनी ; अप्रकट Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy