________________
१४०
संगीतरत्नाकरः कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते । अत्रैकभ्रूसमुत्क्षेपमाहुः कीर्तिधरादयः ॥ ३९५ ॥
___ इति स्निग्धा (१) फुल्लगल्ला विशत्तारा किंचिदाकुञ्चिता चला । निमेषिणी स्मिताकारा हृष्टा दृष्टिरुदाहृता ॥ ३९६ ॥
___ इति हृष्टा (२) या त्वर्धपतितोर्ध्वस्थपुटेषदुद्धतारका । सबाष्पा मन्दसंचारा दीना दृष्टिरसौ मता ॥ ३९७ ॥
इति दीना (३) स्थिरोवृत्तपुटां रूक्षां किंचित्तरलतारकाम् । अनुल्बणैः व्यक्तैः भावैः भावदृष्टिर्भवेत् । विकासीति । विकासिनी चासौ स्निग्धा चेति विकासिस्निग्धा ; मधुरा ; चतुरे ; भ्रुवौ ; बिभ्रती बिभ्राणा, साभिलाषा; कटाक्षिणी दृष्टिः स्निग्धा । अत्र एकभ्रूसमुत्क्षेपमपि कीर्तिधरादय आचार्या मन्यन्ते ॥ ३९४, ३९५ ॥
" इति स्निग्धा (१) (सु०) दृष्टां लक्षयति-फुल्लगल्लेति । फुल्लगल्ला ; फुल्लौ विकसितौ गल्लौ कपोलौ यस्याः; विशत्तारा; विशन्ती अन्तःप्रविष्टा तारा यस्याम् | किंचिदाकुञ्चिता; ईषन्नमिता; चला ; चञ्चला च ; निमेषिणी, स्मितांकारा च दृष्टिः हृष्टा ॥ ३९६ ॥
इति हृष्टा (२) (सु०) दीनां लक्षयति-या त्विति । अर्धपतिता ऊर्ध्वस्थपुटिता ईषत् रुद्धतारका, सबाष्पा; बाष्पसहिता, मन्दसंचारा च दृष्टिः दीना ॥३९७॥
इति दीना (३) (सु०) क्रुद्धां लक्षयति-स्थिरेति । स्थिरोवृत्तपुटाम् ; स्थिरौ उद्
Scanned by Gitarth Ganga Research Institute