________________
१३२
संगीतरत्नाकरः आकुञ्चितोऽन्तनिम्नोऽसौ कार्योऽपसरणे बुधैः ॥ ३७० ॥
इत्याकुञ्चितः (२) निकुञ्चाकुश्चिताभ्यासाचलमावाहने विदुः।
इति चल: (३) भ्रामितो भ्रमणात्खड्गच्छुरिकाभ्रामणादिषु ॥ ३७१ ॥
___ इति भ्रामितः (४) ऋजुः समः पुस्तकस्य धारणे च प्रतिग्रहे ।
इति समः (५)
इति पञ्चधा मणिबन्धः । (सु०) आकुञ्चितं लक्षयति--आकुञ्चित इति । अन्तर्निम्न आकुञ्चितः । असौ अपसर्पणे कार्यः ॥ -३७० ॥
इत्याकुचित: (२) (सु०) चलं लक्षयति-निकुञ्चेति । निकुञ्चाकुञ्चिताभ्यां संयोगात् चलो भवति । स च आवाहने प्रयोज्य: ॥ ३७०- ॥
इति चल: (3) (सु०) भ्रामितं लक्षयति-भ्रामित इति । भ्रमणात् भ्रामितः । स च खड्गच्छुरिकादिभ्रामणादौ प्रयोज्यः ॥ -३७१ ।।
__ इति भ्रमित: (४) (सु०) समं लक्षयति-ऋजुरिति । ऋजुः समः । स च पुस्तकस्य धारणे, प्रतिग्रहे च प्रयोज्यः ॥ ३७१-॥
__इति समः (५) इति पञ्चधा मणिबन्धः । इति मणिबन्धप्रकरणम्।
Scanned by Gitarth Ganga Research Institute