________________
१३०
संगीतरत्नाकरः प्रतीपं गच्छतो जङ्घा ताण्डवे परिवर्तिता ।। ३६५ ॥
इति परिवर्तिता (५) पुरःप्रसारिता जङ्घा निःसृता परिकीर्तिता।
इति नि:सृता (६) पश्चाद्रता परापत्ता भूमिलनेन जानुना ।। ३६६ ।। वामेन पितृकार्ये स्यादन्येन सुरकर्मणि ।
इति परावृत्ता (७) भूमिलग्रबहिःपार्धा तिरश्चीनासने मता ॥ ३६७ ।।
इति तिरवीना (6)
(सु०) परिवर्तितां लक्षयति-प्रतीपमिति । प्रतीपं विपरीतं गच्छतः पुरुषस्य जङ्घा परिवर्तिता । सा च ताण्डवे प्रयोज्या ॥ -३६५ ॥
___इति परिवर्तिता (५) (सु०) निःसृतां लक्षयति-पुर इति । पुरःप्रसारिता जङ्घा निःसृता ॥ ३६५- ॥
इति निःसृता (६) (सु०) परावृत्तां लक्षयति-पश्चादिति । भूमिलग्नेन जानुना उपलक्षिता पश्चाद्गता जङ्घा परावृत्ता । सा च वामजानुना चेत् , पितृकार्य; दक्षिणजानुना चेत्, सुरकर्मणि देवकार्ये च प्रयोज्या इति ॥ -३६६, ३६६- ।।
इति परावृत्ता (७) (सु०) तिरश्चीनां लक्षयति-भूमिलानेति । भूमौ लग्नं बहिःपार्श्व यस्याः, सा तिरश्चीना । सा च आसने विनियोज्या ॥ -३६७ ॥
इति तिरश्वीना (८)
Scanned by Gitarth Ganga Research Institute