________________
१२८
संगीतरत्नाकरः स्तब्धस्तु निष्क्रियः स स्याद्विषादे साध्वसे तथा ।
___ इति स्तब्धः (३) पाणेरन्तर्बहिःक्षेपात्क्षेपादग्रतलस्य च ३५९ ॥ मुहुरुद्वर्तितः स स्याद्वयायामे ताण्डवे तथा ।
इत्युद्वर्तितः (४) निवर्तितोऽन्तर्गतया पार्ष्या स्यात्संभ्रमे श्रमे ।। ३६० ॥
इति निवर्तितः (५)
इति पञ्चधोरुः । आवर्तिता नताक्षिप्तोद्वाहिता परिवर्तिता । इति पञ्चविधा जङ्घा शाहूदेवेन कीर्तिता ।। ३६१ ।।
(सु०) स्तब्धं लक्षयति-स्तब्धस्त्विति । निष्क्रियः क्रियाहीन: स्तब्धः । सः विषादे तथा साध्वसे च विनियोगः ॥ ३५८-॥
इति स्तब्धः (1) (सु०) उद्वर्तितं लक्षयति-पाणेरिति । पाणैः अग्रतलस्य, पादाग्रतलस्य च क्षेपात् मुहुर्मुहुरन्तर्बहिःक्षेपात् उद्वर्तितः । स च व्यायामे, ताण्डवे कार्यः ॥ -३५९, ३६९-॥
इत्युद्वर्तितः (४) __ (सु०) निवर्तितं लक्षयति-निवर्तित इति । पाणिद्वये अन्तर्गते सति निवर्तितः । स च संभ्रमे, श्रमे च कार्यः ॥ -३६० ॥
इति निवर्तितः (५) इति पञ्चधा ऊरुः।
इत्यूरुप्रकरणम् । (सु०) अथ जडाभेदानाह-आवर्तितेति । आवर्तिता, नता, क्षिप्ता,
Scanned by Gitarth Ganga Research Institute