________________
१२७
सप्तमो नर्तनाध्यायः कम्पितो वलितः स्तब्धोद्वर्तितौ च निवर्तितः । इत्यूरुः पञ्चधा तत्र मुहुः पार्थे नतोन्नते ॥ ३५७ ।। यस्यासौ कम्पितो ज्ञेयोऽधमानां गमने च सः ।
इति कम्पित: (१) वलितोऽन्तर्गते जानुन्यूरुः स्वैरगतौ स्त्रियाः ॥ ३५८ ।।
इति वलितः (२) स्यादिति । नमनात् क्षमं भवति । तच्च जृम्भाहास्यनिश्वासरोदने प्रयोज्यम् । इति क्षामम् (१) निम्नं नीचं खलं भवति । तच्च वेतालादि जठरवत्स्यात् । अस्य क्षुधाते, आतुरे, श्रमकर्शिते च प्रयोज्यम् । इति खल्लम् (२) स्थूलं जठरं पूर्णमुज्यते। तुन्दिले, अत्यशिते च प्रयोज्यम् । इति पूर्णम् (३) अन्वर्थनामकं रिक्तपूर्ण केचिदाचार्या जगुः । तत् श्वासरोगे प्रयोज्यम् । इति रिक्तपूर्णम् (४) ॥ ३५१-३५६- ॥
इति चतुर्थोदग्म् ।। (क०) अथोरुजङ्घामणिबन्धजानुभूषणभेदानां लक्षणानि ग्रन्थत एव सुबोधानि ।। ३५७-३७६- ॥
___ इति कम्पितः (१) (सु०) ऊरुभेदानाह-कम्पित इति । कम्पित:, वलितः, स्तब्धः उद्वर्तितः, निवर्तित इति पञ्चधा ऊरुः । तेषां लक्षणमाह-मुहुरिति । यस्य पार्श्वद्वयं पुनः पुनः नतोन्नतं च भवति स कम्पित: स्यात् । स च अधमगमने विनियोगः ॥ ३५७, ३५७- ॥
इति कम्पिता (१) (सु०) वलितं लक्षयति-वलित इति । जानुनि अन्तर्गते वलितः । स: स्त्रिया स्वैरगतौ विनियोगः ॥ -३५८ ॥
इति वलित: (२)
Scanned by Gitarth Ganga Research Institute