________________
सप्तमो नर्तनाध्यायः
७९
प्रसार्य स्कन्धयोः स्कन्धाभिमुखमचलाङ्गुली || २७७ ॥ वर्तितावलपद्मौ चेदुल्बणौ भणितौ तदा । इत्युवण (२८)
पल्लवौ शीर्षदेशस्थौ ललितौ कलितौ बुधैः ।। २७८ ॥ चतुरश्रीमभञ्जन्तौ शिरस्थावचलौ करौ । ललितावपरे माहुरन्ये तु खटकामुखौ ।। २७९ ।। शनैः प्राप्य शिरोऽन्योन्यलगायौ ललितौ विदुः । इति ललितौ (२९)
कूर्परस्वस्तिकयुतौ लताख्यौ वलितौ मतौ ॥ २८० ॥
(सु०) उल्बणयोर्लक्षणमाह – प्रसार्येति । स्कन्धाभिमुखे प्रचलाः चञ्चलाः अगुलयो ययोः, तथाविधौ करौ स्कन्धयोः प्रसार्य वर्तनायुक्तौ अलपल्लवौ क्रियते चेत्; तदा उल्बणौ भणितौ उक्तौ ॥ - २७७, २७७-॥ इत्युल्बणौ (२८)
(सु०) ललितयोर्लक्षणमाह - पल्लवाविति । शीर्षदेशस्थौ ; शीर्षप्रदेशवर्तमानौ बुधैः ललिताविति कलितौ ज्ञातौ । मतान्तरमाह — चतुरश्रीमिति । चतुरश्रत्वमभजन्तौ अनाश्रयन्तौ शिरस्थानस्थितौ अचलौ करौ ललिता - विति । मतान्तरमाह — अन्ये त्विति । अन्ये तु; आचार्याः खटकामुखौ शनैः मन्दं, शिरः प्राप्य, अन्योन्यलग्नाग्रौ; परस्परमिलिताप्रौ ललितावित्याहुः ॥ -२७८, २७९-॥
इति ललितौ (२९)
(सु० ) वलितयोर्लक्षणमाह -कूर्परेति । लताख्यौ करौ कूर्परस्वस्तिकयुक्तौ वलितावित्युच्येते । मतान्तरमाह - पर इति । परे; आचार्याः,
मूर्ध्नि
Scanned by Gitarth Ganga Research Institute