________________
६०
संगीतरत्नाकरः चतुष्कलं तु द्विगुणं द्विकलात्पूर्ववन्मतम् । उपोहनं तु वस्त्वर्ध द्विकलं प्रत्युपोहनम् ॥ १०१ ॥ दक्षिणे वार्तिके त्वेतद् द्विकलं वा चतुष्कलम् । न वा तत्सर्वमार्गेषु विशेषस्तूपवर्तनम् ॥ १०२ ॥ तुर्यवस्तूत्तरार्धस्थैः पदैनिर्माणमिष्यते । आनिविप्रा आनिविप्रा आवापनिविशास्ततः ॥ १०३ ॥ आवापनिविता आताविशास्तानिविसं कलाः ।
शतालपान्माहुरन्येऽष्टमद्वादशषोडशान् ॥ १०४ ।। माह-केचिदिति । केचित् उपवर्तनं पञ्चमवस्तुन आद्य वस्तुनो गेयमित्याहुः । कलानियममाह-निप्रेति । द्वादशसु कलासु प्रतिवस्तु क्रमात् निष्क्रामप्रवेशनिष्कामशम्या निष्कामतालशम्यातालसंनिपाता: कार्याः ॥-९५-१०० ॥
इति द्विकलमपरान्तकम । (क०) अथ चतुष्कलमपरान्तकं लक्षयति-चतुष्कलं त्वित्यादि । पूर्ववदिति; मद्रकवदित्यर्थः । द्विकलाद्विगुणमिति । वस्तुनि प्रतिपादभागं गुरुचतुष्टयं कर्तव्यमित्यर्थः । उपोहनं तु वस्त्वमिति । वस्त्वधं द्वादशगुरूण्युपोहनं कर्तव्यम् । द्विकलं प्रत्युपोहनमिति । द्विकलं गुरुद्वययुक्तम् । दक्षिणे वार्तिके त्वेतदित्यादि । एतत्प्रत्युपोहनं वार्तिके द्विकलं, दक्षिणे चतुष्कलं चेति यथायोगं योजनीयम् । न वा तदिति । तत्प्रत्युपोहनं न वेति तृतीयः पक्षः । सर्वमार्गेषु विशेषस्तूपवर्तनमिति । चतुष्कलापरान्तके विशेषस्तपवर्तनं सर्वमार्गेपु ध्रुवादिमार्गेषु कर्तव्यमिति । तुर्यवस्तूत्तरार्धस्थैः पदैः निर्माणमिष्यत इत्यत्रास्योपवर्तनस्यत्यध्याहारः कर्तव्यः । आनिविप्रा इत्यादि । वस्तुनि पादभागेषु पातकलायोगो द्रष्टव्यः । शातालपान्माहुरन्ये अष्टमद्वादश षोडशानिति । अन्ये आचार्याः, वस्तुनः चतुर्विशतौ गुरुषु अष्टमद्वादशषोडशान् गुरून् ‘शतालप्रान्'
Scanned by Gitarth Ganga Research Institute