________________
पश्चमस्तालाध्यायः
तालिकां च शीर्षकं च लिखेत् । सर्ववस्तूनां प्रतिवस्तु शाखात्वपक्षे तत्तदर्धानां प्रतिशाखात्वे प्रस्तारः
(क०) अस्य प्रस्तारो यथा---गुरुद्वयात्मकान् षट्पादभागान् लिखित्वा तदधो निप्रनिप्रनिशनिताताशतासान् क्रमेण लिखेत् । इदमेकवस्तु । एवं चत्वारि वस्तूनि लिखेत् । ततो यथाक्षरेणोत्तरेणोपवर्तनं लिखेत् । पञ्चमवस्तु लिखित्वा यथाक्षरेणोत्तरेण तालिकां तेनैव शीर्षकं च लिखेत् । इति शाखा । इयमेव प्रतिशाखा । शाखापश्चिमार्धस्य प्रतिशाखात्वे तु पञ्चवस्तुकां शाखां गीत्वा सार्धद्वयमुत्तरं प्रतिशाखां कुर्यात् । यथातृतीयवस्तूतरार्धे गुरुद्वयात्मिकांस्त्रीन्पादभागान् लिखित्वा तदधो निताताशतासान् लिखेत । ततश्चतुथै वस्तु पूर्ववल्लिखेत । ततः यथाक्षरेणोत्तरेणोपवर्तनम् । ततः पञ्चमं वस्तु पूर्ववल्लिखेत् । ततः यथाक्षरेणोत्तरेण तालिका तेनैव शीर्षकं च कुर्यात । अथ सर्ववस्तूनां शाखान्ते तदुत्तरार्धानां प्रतिशाखात्वे तु; यथा-पूर्ववत् प्रथमं वस्तु शाखां कुर्यात् । तदुत्तरार्ध प्रतिशाखां कुर्यात् । एवं त्रीणि वस्तूनि शाखाप्रतिशाखायुक्तानि गीत्वा चतुर्थवस्त्वन्ते यथाक्षरेणोत्तरेणोपवर्तनं कुर्यात् । ततो वस्तूत्तरार्धेन प्रतिशाखां कुर्यात् । ततः पञ्चमवस्तु शाखां कृत्वा यथाक्षरेणोत्तरेण तालिकां तेनैव शीर्षकं च कुर्यात् । ततो वस्तूतरार्धेन प्रतिशाखां कृत्वा पूर्ववत्तालिकाशीर्षके कुर्यात् । एवं षड़स्तुकं सप्तवस्तुकमपि ।।
इति द्विकलमपरान्तकम् (मु०) द्विकलमपरान्तकं लक्षयति-द्विकल इति । द्विकले अपरान्तके द्वादशकलं वस्तु; अन्यत्सर्वमेककलमपरान्तकवत् । विशेषस्त्वयम्-एककलं कलद्वयं वोपोहनम् । प्रत्युपोहनं त्वेकैव । कलाचतुर्थे वस्तुनि गीते सति चतुर्थवस्तुनः पदेन गीत्वा चोपवर्तनं गातव्यम् । तच्चतुष्टयवस्तुलयापेक्षया अर्धलयं कार्यम् । तस्य लक्षणमाह-यथाक्षरेणेति । वृत्तिदक्षिणमार्गस्थितेन यथा दक्षिणे षपितापुत्रकेण अर्धे समाप्त जातिन्यासस्वरयुक्तमुपवर्तनमिति । मतान्तर
Scanned by Gitarth Ganga Research Institute