________________
५४
संगीतरत्नाकरः द्विकले द्वादशकलं वस्तु स्यादपरान्तके ॥ ९५ ॥ तच्चैककलावत्कार्य विशेषस्त्वभिधीयते । उपोहनं स्यात्कलिकं द्विकलं वा कलैव तु ॥ ९६ ॥ प्रत्युपोहनमत्रोपवर्तनं तुर्यवस्तुनि । गीते तत्पदगीतिभ्यां तल्लयालयं भवेत् ।। ९७ ।। यथाक्षरेणोत्तरेण वृत्तिदक्षिणमार्गयोः । समाप्तार्थन्यासयुक्तं केचित्पञ्चमवस्तुनः ।। ९८ ॥ एतदाद्ये कलाषट्के गातव्यमिति मन्वते । निपनिमा निशनितास्ताशास्तासं कला विह ॥ ९९ ॥ एकैकं विविधं वात्र गीताङ्गं दत्तिलोऽवदव । गीतामनियम कंचिन्नाबूत भगवान्मुनिः ॥ १०० ।।
(क०) अथ द्विकलमपरान्तकं लक्षयति-द्विकले द्वादशकलमित्यादि । तच्चैककलवदिति । एकवस्तुकादयश्चत्वारो भेदाः शाखाप्रतिशाखादिकल्पनाभेदाश्चात्रापि कर्तव्या इत्यतिदेशार्थः । विशेषस्त्विति । उपोहनोपवर्तनादिकल्पनमित्यर्थः । उपवर्तनमित्यादि । तुर्ये वस्तुनि गीते सति ; तत्पदगीतिभ्याम् । तस्य तुर्यवस्तुनः, पदं सुप्तिङन्तम् , गीतिः मागध्यादिः, ताभ्याम् । तल्लयालयमिति । तस्य तुर्यवस्तुनो यो लयः तदर्धे लयो यस्येति तत्तथोक्तम् । एतदुपवर्तनविशेषणम् । वृत्तिदक्षिणमार्गयोरित्यनेन द्विकलचतुष्कलाभ्यामिति गम्यते। अयमर्थ:-अत्रोपवर्तने यथाक्षरादयस्त्रयोऽपि पट्पितापुत्रकभेदाः कर्तव्या इति । समाप्तार्थन्यासयुक्तमिति । समाप्तश्वासावर्थश्च । तत्र न्यासेन युक्तमिति तथोक्तम् । अस्मिन्नपवर्तने वाक्यार्थसमाप्तौ गीतसमाप्तिं च कुर्यादित्यर्थः । केचिदित्यादि । पञ्चमवस्तुन आये कलाषट्क इत्यनेन केवलं यथाक्षरेणोत्तरेणेति गम्यते । एतदिति । उपवर्तनमित्यर्थः । निप्रनिप्रेत्यादि । इह; द्विकलापरान्तकस्य वस्तुनि।।९५-१००॥
Scanned by Gitarth Ganga Research Institute