________________
पञ्चमस्तालाध्यायः
आवापादिः प्रयोक्तव्यो भाविपातस्य पाणिना ॥ ३५ ॥ पातयुक्ते पादभागे नागुल्या क्रियते कला । उद्धट्टे तु सनिष्क्रामं शम्याद्वन्द्वं च योजयेत् ॥ ३६ ॥
इत्येककलोद्धट्टकलाविधिः । चाचपुटस्य त्रिषु पादभागेषु मध्यमाङ्गुलिं विना कलाधारणम् । प्रथमे पादभागे कनिष्ठया; द्वितीये कनिष्ठानामिकाभ्याम् ; तृतीये कनिष्ठानामिकातर्जनीभिः । षपितापुत्रकास्याङ्गुलिनियममाह- पञ्चपाणेरिति । कनिष्ठादिचतुष्केण पूर्वोक्तप्रकारेण कनिष्ठया तर्जन्या च पृथक्पादभागेषु कला धारयितव्या । प्रथमे पादभागे कनिष्ठया ; द्वितीये कनिष्ठिकानामिकाभ्याम् ; तृतीये कनिष्ठिकानामिकामध्यमाभिः। चतुर्थे चतसृभिः ; पञ्चमे कनिष्ठया ; षष्ठे तर्जन्येति ॥ ३२-३४-॥
(क०) भाविपातस्य पाणिनेति । भावी चासौ पातः शम्यादिः; तस्य भाविपातस्येति संबन्धे षष्ठी। तत्संबन्धेन पाणिना दक्षिणादिना शम्याया दक्षिणेन तालस्य वामेन संनिपातस्य वामदक्षिणेनेत्यर्थः । तेन पाणिना पूर्वमामापादिः प्रयोक्तव्यः । पातयुक्त इति । शम्यादियुक्ते । अगुल्या कला न क्रियत इति । अगुलीपातमात्रेण क्रियायाः सशब्दत्वानभिव्यक्तेरिति निषेधस्य तात्पर्यम् । तत्र सकलेन पाणिना पातः कर्तव्य इति भावः ॥ ३५, ३६ ॥
आवापादि निःशब्द क्रियाविशेषा एवाङ्गुलिनियमेन 'कर्तव्य इत्यत आह-आवापादिरिति । पातः सशब्द क्रियाविशेषः । पाणिना सर्वेणैव करेण कर्तव्यः । ततश्च यस्मिन् पादभागे सशब्दक्रिया विद्यते, तत्र अङ्गुल्या क्रिया न कर्तव्येति । उद्घट्टकलाविधिं कथयति-उद्घट्टेति । प्रथमे गुरौ निष्क्रामः । अन्ते गुरुद्वये शम्येति ॥ -३५, ३६ ॥
'प्रयोक्तव्य: Bd.
Scanned by Gitarth Ganga Research Institute