________________
संगीतरत्नाकरः प्रथमे पादभागे स्यात्कलागुल्या कनिष्ठया ॥ ३२ ।। तया चानामयान्यत्र ताभ्यां मध्यमया तथा । तृतीये स्याञ्चतसृभिस्तुर्ये चच्चन्पुटस्य तु ।। ३३ ।। ओजस्य पादभागेषु कला मध्यागुलीं विना । पञ्चपाणेः कनिष्ठादिचतुष्केण कनिष्ठया ॥ ३४ ॥
तर्जन्या च पृथक्पादभागषट्के क्रमात्कलाः । पञ्चमे आवापः ; षष्ठे निष्क्रामः ; सप्तमे विक्षेपः ; अष्टमे ताल: ; नवमे आवापः; दशमे शम्या; एकादशे विक्षेपः ; द्वादशे प्रवेशकः; त्रयोदशे आवापः; चतुर्दशे निक्रामः ; पञ्चदशे विक्षेपः ; षोडशे संनिपात इति चतुष्कलचच्चत्पुटकलाविधिः । चतुष्कले चाचपुटे तु-प्रथमगुरौ आवापः; द्वितीयगुरौ निष्क्रामः ; तृतीये विक्षेपः; चतुर्थे शम्या; पञ्चमे आवापः ; षष्ठे ताल: ; सप्तमे विक्षेपः ; अष्टमे शम्या ; नवमे आवापः; दशमे निष्क्रामः ; एकादशे विक्षेपः ; द्वादशे संनिपात इति चतुष्कलचाचपुटकलाविधिः । चतुष्कले षपितापुत्रके चतुर्विंशतिसंख्याकेषु गुरुषु प्रथममारभ्य क्रमेण आवापनिष्क्रामविक्षेपादयः कर्तव्याः ॥ ३१ ॥
(क०) प्रथमे पादभागे स्यादित्यादिना । अन्यत्रेति । द्वितीये पादभागे । ओजस्येति । चाचपुटस्य व्यश्रत्वेन विषमत्वात् ओज इत्युच्यते । तस्य पादभागेषु त्रिषु मध्यागुली विना कला स्यात् । चाचपुटस्य प्रथमादिषु त्रिपु पादभागेषु कनिष्ठानामिकातर्जनीभिः क्रमेण कलाः कार्येत्यर्थः ॥ ३२-३४- ॥
(सु०) चच्चत्पुटे पादभागे अगुलिनियममाह-प्रथमेति । चच्चत्पुटस्य प्रथमे पादभागे एकया कनिष्टिकया अगुल्या कला निःशब्द क्रिया धारयितव्या । द्वितीये पादभागे तया कनिष्ठिकया अनामिकया च मिलिताभ्यां कनिष्ठिकानामिकाभ्यां कलाधारणम् । तृतीये पादभागे कनिष्ठिकानामिकामध्यमाभिः कलाधारणम् । चतुर्थे चतसृभिरगुलीभिः । ओजस्येति । ओजस्य ;
Scanned by Gitarth Ganga Research Institute