________________
संगीतरत्नाकरः आदावधिक आवापे क्षिप्ते विक्षेपकेऽन्तरा ।। ३१ ।। त्यपरः। द्विकले युग्मक इति । द्विकलचच्चत्पुटे चच्चत्पुटस्य चतुरश्रत्वेन समत्वात् युग्मक इति संज्ञान्तरम् । उत्तरे ; षपितापुत्रके ॥ २९, ३० ॥
(सु०) चच्चत्पुटवत् पातकलाविधिं कथयति-अन्यदिति । एककलचच्चत्पुटे यदुक्तं पातकलाविधौ प्रकारत्रयम् , तत्रान्यत् प्रकारद्वयं शताशता ताशताशेति तच्चाचपुटेऽपि बोध्यम् । मुनेर्मतमिति । मुनिग्रहणं प्रशंसार्थम् । न तु स्वमतमित्यन्यथाख्यापनार्थम् । ततः चाचपुटे प्रथमगुरौ शम्या ; लघुनि ताल: ; द्वितीयलघुः शम्या ; अन्त्यगुरौ तालः; अथवा प्रथमगुरौ ताल:; लघुनि शम्या ; द्वितीयलघुनि ताल:; अन्त्यगुरौ शम्या इत्येककलचाचपुटकलाविधिः । षपितापुत्रककलाविधिं कथयति–उत्तर इति । उत्तरे; पितापुत्रके । सताशताशतेति । प्रथमप्लुते संनिपातः; लघुनि तालः; ततोऽनन्तरम् , गुरुद्वये क्रमात् शम्यातालौ ; ततो लघुनि शम्या ; प्लुते शम्या इत्येककलपितापुत्रकः । निशाविति | द्विकले युग्मके इति । चन्चत्पुटे ; निशौ निताशप्रविशमिति । प्रथमगुरौ निष्क्रामः ; द्वितीयगुरौ शम्या ; तृतीयगुरौ निष्क्रामः ; चतुर्थगुरौ ताल: ; पञ्चमगुरौ शम्या ; षष्ठगुरौ प्रवेशः; सप्तमगुरौ विक्षेपः ; अष्टमगुरौ शम्या इति द्विकलचच्चत्पुटकलाविधिः । द्विकलचाचपुटकलाविधिं कथयति-निशाविति । चाचपुटे ; निशताशनिसमिति । प्रथमगुरौ निष्क्रामः ; द्वितीये शम्या ; तृतीये ताल: ; तुर्ये शम्या ; पञ्चमे निष्क्रामः ; षष्ठे संनिपात इति द्विकलचाचपुटकलाविधिः । द्विकल
पितापुत्रककलाविधिमाह-निप्रेति । निप्रताशनितानिशताप्रनिसमिति । प्रथमगुगै निष्क्रामः ; द्वितीयगुरौ प्रवेशः; तृतीयगुरौ ताल: ; तुयें शम्या; पञ्चमे निष्क्रामः ; षष्ठे तालः ; सप्तमे निष्क्रामः ; अष्टमे शम्या ; नवमे ताल:; दशमे प्रवेशकः; एकादशे निष्क्रामः ; द्वादशे संनिपात इति द्विकलपितापुत्रककलाविधिः ॥ २९, ३०- ॥
(क०) एवमेककलेषु पातकलायोगं, द्विकलेषु पातकलायोगं च दर्शयित्वा चतुष्कलेप्वपि पातकलायोगं दर्शयितुमाह-- आदावधिक इति ।
Scanned by Gitarth Ganga Research Institute