________________
३९७
षष्ठो वाद्याध्यायः सद्योजातानागबन्धः स्वस्तिको वामदेवतः । अलग्नोऽभूदघोरात्तु शुद्धिस्तत्पुरुषाभिधात् ।। ८३० ॥ आसीदीशानवक्त्रात्तु समस्खलितसंज्ञकः । जाताः पञ्चेति पञ्चभ्यो मुखेभ्यः पार्वतीपतेः ॥ ८३१ ।। अतस्ते सर्वपाटानां पाटा मुख्यतमा मताः । क्रमात्तदेवता ब्रह्मविष्णुशवरवीन्दवः ।। ८३२ ॥ नागबन्धश्च पवनस्तथैकैकसराभिधौ । ततो दुःसरसंचारविक्षेपा नागबन्धजाः ॥ ८३३ ॥ सप्तत्यथ स्वस्तिकजाः स्वस्तिको बलिकोहलः। फुल्लपूर्वश्च विक्षेपः कुण्डलीपूर्वकश्च सः ॥ ८३४ ॥ संचारविखली खण्डनागबन्धश्च पूरकः । भेदाः सप्तेत्यलग्नस्य त्वेते सप्त प्रकीर्तिताः ॥ ८३५ ॥ अलग्नोत्सारविश्रामा विषमाद्या खली सरी। स्फुरी स्फुरणकश्चेति शुद्धः स्याच्छुद्धिरादिमः ।। ८३६ ।।
स्वरस्फुरणकोत्फुल्लवलितावघटास्ततः । व्यापारत्वात्तदुद्भवेऽपि हस्तोद्भवत्वमेव द्रष्टव्यम् । ततवाद्ये हस्तव्यापारसद्भावे. ऽपि तत्राङ्गुलिव्यापारस्य प्राधान्यान्न हस्तोद्भवत्वव्यपदेशः ।।८२८, ८२९॥
(सु०) अधुना पटहपाटान् निरूपयति-य इति । ये पाटाः षोडशवर्णाः कवर्गादयः पूर्वमुक्ताः, तेषां विविधगुम्फनात् क्रमात् क्रमवद्योगात् हस्तेनोत्पन्ना: पाटभेदाः हस्तपाटा इत्युच्यन्ते ॥ ८२८, २८९ ॥
(क०) तेषु मुखपाटानां नागबन्धादीनामुत्पत्तिं दर्शयति-- सद्योजातादिति ॥ नागबन्धादीनां पञ्चानां नामसाम्येन नागबन्धादयो
Scanned by Gitarth Ganga Research Institute