________________
३९६
संगीतरनाकरः ये पाटाः पटहे प्रोक्तास्तेषां विविधगुम्फनात् । हस्तोद्भवाः पाटभेदा हस्तपाटाः प्रकीर्तिताः ।। ८२८ ॥ ते चानन्ता न शक्यन्ते प्रत्येकं वेदितुं जनैः।
प्रदर्शनार्थमेतेषु कतिचित्प्रतिपादये ॥ ८२९ ॥ नाम मार्गपटहस्य दक्षिणवक्त्रपिधायकश्चर्मविशेषः । तत्र वादनेन देंकारः पूर्ववदधिक उत्पद्यते । पद्मासनोपविष्टेनेति । पद्मासनबन्धं कृत्वोपविष्टेन पटहवादकेन ॥ ८२२-८२७ ॥
पटहलक्षणम्
(सु०) अस्य वर्णानाह-डवर्जित इति । डकारेण वर्जितो हीनः, तेन कवर्गटवर्गतवर्गा रेफहकाराश्च षोडश वर्णा: पाटाः । उत्तमो मार्गदेशीपटहयोभवेत् । ते पाटाः संयोगादिविशेषेण अनेकप्रकारा भवन्ति । पूर्वोक्तायामुहल्यां झेंकार एवोत्पद्यते । कवले देंकारः पूर्वोक्तवर्णेभ्योऽधिको जायते । देशीपटहो लोके अडावज इत्युच्यते । अष्टादशेति । अस्य पटहस्य कोणः वादनकाष्ठमष्टादशाङ्गुलप्रमाणम् | अग्रे किंचिन्ननं, मध्ये स्थूलं, मूलदेशे मदनाम्बरेण सिक्थकच्छेन च त्रिवेष्टितं कार्यम् । वादनप्रकारमाह-पोति । पद्मासने लोकप्रसिद्ध उपविष्टेन वादकेन ऊर्वोनिधाय मार्गपटहो वाद्यो वादनीयः । नाटके तु अयं पटहः, अर्धमुखः घटवाद्यवद्वाद्यत इत्यर्थः । अथवा अस्य वादनं कोणेन पाणिना कार्यम् ॥ ८२२-८२७ ।।
इति पटहलक्षणम् (क०) अथ पटहोद्भवान् हस्तपाटान् लक्षयति-ये पाटा इति । तेषामिति । यथायोगं झेंकारदेंकारसहितानां कादीनां षोडशवर्णानाम् । विविधगुम्फनात; संयोगादिभिर्बहुधा विविधकारणात् । हस्तोद्भवा इति हेतुगर्भितं विशेषणम् । हस्तोद्भवत्वादिति हेतुर्दष्टव्यः । कोणस्यापि हस्तव्यापाराधीन
Scanned by Gitarth Ganga Research Institute