________________
३८८
संगीतरत्नाकर:
कनिष्ठाग्रमितस्थौल्यमस्या लोकानुसारतः । फूत्काररन्ध्रमेकं स्यात्पञ्च स्युः स्वरसिद्धये ।। ७८५ ॥ वादनं विविधं नागयक्षावेश विधायकम् ।
इति पाविकालक्षणम्
हस्तयाधिका माने मुखरन्धसमन्विता ।। ७८६ ॥ चतुःस्वरच्छिद्रयुता मुरली चारुनादिनी । इति मुरली
शृङ्गजा दावी वा स्यात्काहलाकृतिधारिणी ।। ७८७ ॥ अष्टाविंशत्यङ्गुला च दैर्ये मधुकरी शुभा । मुखरन्धं च तस्याः स्यात्तुवरीबीजसंनिभम् || ७८८ ॥ मुखरन्ध्रादङ्गुलानि त्यक्त्वा चत्वारि वंशवत् ।
अस्या कनिष्ठाङ्गुलिमितं स्थौल्यं लोकरीत्या एकं फूत्काररन्धं कार्यम् । पञ्च स्वरोत्पादकानि रन्ध्राणि, अनेकप्रकारं वादनं रागयुक्तवेगकारि ॥७८४,७८५-॥ इति पाविकालक्षणम्
(सु० ) मुरली लक्षयति -हस्तेति । हस्तकद्वयाधिकविस्तारा मुखरेन्ध्रेण चतुर्भिश्च स्वररन्धैः प्रयुक्ता मुरली ॥ - ७८६- ॥
इति मुरली
(सु० ) मधुकरी लक्षयति-शृङ्गजेति । शृङ्गजा शृङ्गकृता, दारवी वा काष्ठकृता वा काहलावत् अष्टाविंशत्यङ्गुलदीर्घा मधुकरी । तस्याः मुखरन्धं च, तुवरीबीजं संनिभम् ; तुवरी आढकी, तस्या बीजवत् कार्यम् । ततः मुखरन्ध्रात् चतुरङ्गुलानि त्यक्त्वा सप्त रन्ध्राणि कार्याणि । तेषामन्तः अन्त
Scanned by Gitarth Ganga Research Institute