________________
३८४
संगीतरनाकरः निषादाद् ग्रहतां नीतादारोहेदाचतुर्यकम् । तं विलम्ब्य ततो गच्छेद् ग्रहे चेदवरोहिणा ॥ ७७० ।। तदा द्राविडगौडस्य स्वस्थानं प्रथमं भवेत् । लोके सालगगौडोऽयं द्वितीयोऽस्य ग्रहो मतः ।। ७७१ ।। पञ्चमं ग्रहमास्थाय तृतीयं च द्वितीयकम् ।
मुक्त्वा तृतीयं स्पृष्ट्वा च प्रान्तमुक्त्वा तृतीयकम् ।। ७७२ ॥ तत्पूर्वग्रहद्वितीयतुर्यान् गीत्वा, द्वितीयतस्त्रीन् स्वरानवरुह्य ग्रहे न्यासे तौरुष्कगौडस्य प्रथमं स्वस्थानम् ॥ ७६८, ७६९ ॥
इति तुरुष्कगौडः
(मालवगौड इति लोके) (क०) द्राविडगौडे-लोके सालगगौड इत्युक्तम् । इदानीं तु लोके सालग इत्येतावतैव व्यवहारो दृश्यते, स कथमुपपद्यत इति चेत् ; सोऽपि भीमसेने भीम इति व्यवहारवदुपपन्न एव ॥ ७७०, ७७१ ॥
इति द्राविडगौडः (लोके सालगगौडः)
इत्युपाङ्गानि (सु०) द्राविडगौडमाह-निषादादिति । ग्रहान्निषादात् स्वतुर्यस्वरपर्यन्तमारुह्य तं चतुर्थस्वरं विलम्बितं गीत्वा, अवरोहे ग्रहसमाप्तौ द्राविडगौडस्य आयं स्वस्थानम् || ७७०, ७७१ ॥
इति द्राविडगौडः (लोके सालगगोड:)
इत्युपाङ्गानि (सु.) अथ कैशिकीमाह-पञ्चममिति । ग्रहपञ्चमानन्तरं द्वितीयतृतीयौ
Scanned by Gitarth Ganga Research Institute