________________
३८२
संगीतरनाकरः कृत्वा महात्परौ द्विस्तु ग्रहमाहत्य पूर्वकम् । द्वितीयं च क्रमादुक्त्वा ग्रहे चेन्यस्यते तदा ॥ ७६२ ।। स्वस्थानमाद्यं मल्हारे ग्रहो वंशे द्वितीयकः ।
इति महलार: ग्रहं द्विगुणसं कृत्वा द्रुतीकृत्य ततोऽधरम् ।। ७६३ ॥ तमान्दोल्य द्वितीयं तु विधायाथ तृतीयकम् । स्फुरितं ग्रहतत्पूर्वी वादयित्वा ग्रहे यदा ॥ ७६४ ॥ न्यासः कर्णाटगौडस्य स्वस्थानं प्रथमं तदा। वंशे ग्रहस्तृतीयोऽस्य गृह्यते लक्ष्यवेदिभिः ।। ७६५ ॥
__ इति कर्णाटगौडः यहं तमेव सं कृत्वा प्राच्य तुर्यतृतीयको ।
स्थायिनं तद्दलं चोक्त्वा पूर्वस्थायिदलं ततः ।। ७६६ ॥ द्वितीयं स्वरं सकृदाहत्य ग्रहं गीयते, ततो ग्रहं विस्ताडयित्वा ग्रहात्पूर्व द्वितीय चोचार्य ग्रहे समाप्तौ मल्हारस्याचं स्वस्थानम् ॥ -७६१, ७६२- ॥
इति मल्हार: (सु०) अथ कर्णाटगौडमाह-प्रहमिति । द्विगुणे षड्जे ग्रहे सति तत्पूर्वमाशु गीत्वा, तमेवाध आन्दोल्य द्वितीयं द्विर्गीत्वा, स्फुरिततृतीयानन्तरं ग्रहं तत्पूर्व च वादयित्वा, ग्रहे न्यासे कर्णाटगौडस्य प्रथमं स्वस्थानम् ॥ -७६३-७६५ ॥
इति कर्णाटगौडः (क०) देशवालगौडे-ग्रहं तमेव समिति । पूर्वरागग्रहपरामर्शन द्विगुणं षड्जमित्यर्थः। तहलमिति । स्थायिनः प्रकृतत्वात्तच्छब्देन
Scanned by Gitarth Ganga Research Institute