________________
३५१
षष्ठो वाद्याध्यायः उत्तरो मुद्रितो वंशः पूर्वतुल्यस्वरोदयः ॥ ६१० ।। उद्धृताङ्गुलिवृद्धौ तु तस्मादप्युत्तरोत्तरे । मिलन्ति मुद्रिता वंशा यथासंख्यं पुरातनैः ॥ ६११ ॥ स्वरोदयेऽप्यगुलयः शास्त्रीये लौकिके तथा । वंशे तुल्याप्रकाराः स्युरिति श्रीशाङ्गिणोदितम् ॥ ६१२ ।। एकस्वराणि रन्ध्राणि संनिधौ व्यवधावपि । मिलन्ति सर्ववंशानामिति ब्रूते हरप्रियः ।। ६१३ ॥ मानहीनं तु यद्न्धं खानिर्वा यत्र तादृशी । न तद्रन्धैः स्वजातीयैमिलन्ति स्वरभङ्गतः ॥ ६१४ ॥ चतुर्दशादिवंशानामावंशादेकवीरतः । यथैकैकस्वराधिक्यं वंशे स्यादुत्तरोत्तरे ॥ ६१५ ॥
पूर्वोक्तेषु देशीवंशेषु आद्याद्यवंशात् सकाशात् द्वितीयद्वितीयवंशो मुद्रितः पिहित: सन् अर्धस्वराधिको भवति । अल्पप्रमाणानां वंशानामुत्तरत्वं द्वितीयत्वम् । दक्षिणहस्तस्य कनिष्ठायां मुक्तायां स्वरार्ध जायते । पूर्ववंशस्य कनिष्ठायां मुद्रितायां यथा ध्वनिस्तथोत्तरे वंशे मुद्रिते ध्वनिर्जायते । उद्धृतेति । उद्धृतानामगुलीनां वृद्धावुत्तरोत्तरे वंशे पुरातना वंशा मुद्रिता मिलन्ति, समाननादा भवन्ति । यथासंख्यमिति । अङ्गुलिद्वयोद्धृतौ द्वितीयः पुरातनो मिलति । अङ्गुलित्रयोद्धृतौ तृतीय इति । स्वरोदय इति । शास्त्रोक्ते लौकिके च वंशेस्वरोदये अगुलिप्रकारास्तुल्य एव । एकस्वरोत्पादके रन्ध्राणि संनिधौ संनिकर्षे व्यवधौ विप्रकर्षे वा समाननादानि भवन्तीति शाङ्गदेव आह । मानहीनमिति । प्रमाणहीनं यद्रन्ध्रमुक्तं गर्भरन्ध्र वा, यत्रोक्तप्रमाणहीनैः रन्धैः सजातीयैः समानस्वरोत्पादकैरपि स्वरभङ्गत्त: तत्र न मिलन्ति, समाननादा न भवन्तीत्यर्थः । मिलनं समाननादत्वं प्रसिद्धमेव लोके । इदानीमन्यथा वंशान् लक्षयितुमाह-चतुर्दशेति । चतुर्दशादीनां वंशानामेकवीरपर्यन्तं मुद्रिते उत्तरो
Scanned by Gitarth Ganga Research Institute