________________
३३३
षष्ठो वाद्याध्यायः प्रमाणं मुनिदण्डस्य मान रन्ध्राष्टके पुनः ।। ४७९ ॥ यवत्रयं सार्धपादाधिकं प्रत्येकमीरितम् । पृथक्पश्चयवी सार्धान्तरेष्वन्यत्तु पूर्ववत् ।। ४८० ॥ वसुवंशे तु दण्डस्याङ्गुलाष्टाविंशतिमितिः । यवाधिका जातिमुखं यवेनाधिकमङ्गुलम् ।। ४८१ ।। यवाधिकाङ्गुला ज्ञेयान्तरालेषु मितिः पृथक् । शेषं तु पूर्वववंशे नाथेन्द्रे दण्डसंमितिः ॥ ४८२ ।। यवपादाधिका त्रिंशदगुलानां शिरोन्तयोः । पादोनत्र्यङ्गुलं मानं पृथगन्तरसप्तके ॥ ४८३ ॥ सपादमङ्गुलं मानं खानिमानं तु मूलतः । षष्ठभागविहीनं स्यात्कनिष्ठापर्वमध्यमम् ।। ४८४ ॥ अन्यत्तु पूर्ववदण्डे महानन्दस्य संमितिः । पादन्यूनेन पादेन यवस्याभ्यधिका भवेत् ॥ ४८५ ॥ द्वात्रिंशदगुलानां तच्छिरोन्तौ व्यङ्गुलौ पृथक् । सपादागुलकं जातिमुखमन्तरसप्तके ॥ ४८६ ।।
फूत्काररन्धे अपरा च एकयवाधिको ज्ञातव्यः । युक्तेति । मुनिवंशे ; सार्धयवाधिक षड्रिंशत्यगुल:; अष्टौ रन्ध्राणि सार्धचतुर्थांशाधिकयवत्रयमितानि; पृथगन्तरालानि सार्धपश्चयवमितानि । वसुवंश इति । वसुवंशे ; यवाधिकाष्टाविंशत्यङ्गुलो दण्डः; जातिमुखं यवाधिकाङ्गुलप्रमाणम् ; तावदेव प्रमाणमन्तरालेष्विति । वंश इति । नाथेन्द्रे वंशे ; यवचतुर्थाशाधिकत्रिंशदङ्गुलो दण्डः ; मस्तकप्रान्तौ चतुर्थाशोनत्र्यगुलौ; सप्तान्तरालानि सपादाङ्गुलसंमितानि; खानि मानं तु मूलतः षष्ठांशेन हीनं कनिष्ठाङ्गुल्या मध्यपर्वमितम् । अन्यत्तु पूर्ववत् ॥४७८-४८४-।।
(क०) खानिमानं तु मूलत इति । खानि म यावद्दण्डमायातं
Scanned by Gitarth Ganga Research Institute