________________
२५६
संगीतरत्नाकरः
मध्योत्तरद्विरधरे तारौ मध्यस्थपन्द्रकौ ।
इति मध्योत्तर द्विरधर: (७)
मन्द्राद्यन्तो भवेत्तारोsधरमध्यद्विरुत्तरे || १४६ ।।
इत्यधर मध्य द्विरुत्तर : (c)
त्रिमहारभवे भेदा: स्युरिमे समवायजे । इत्यष्टौ समवायजभेदाः
सजातीयविजातीय भेदसंमिश्रणोद्भवः || १४७ || अनुबन्धाभिध धातुः शार्ङ्गदेवेन कीर्तितः ।
इत्यनुबन्ध: ( ९ )
इति चतुर्दश विस्तारजधातुमेदाः
लघुगुर्वात्मकैर्घातैः करणाविद्धयोः क्रियाः || १४८ || करणोऽल्पगुरुस्त तद्भेदलक्षयेऽधुना ।
(५); सकृत्तारमाहत्य द्विर्मन्द्रघाते अधरादिद्विरुत्तरः, इत्यधरादिद्विरुत्तर : (६); मध्यस्थो मन्द्रो ययोः, एवंविधौ तारौ उच्चारयेत् तारमध्यमन्द्रतारा उच्चार्यन्ते चेत्; तदा मध्योत्तरद्विरधर:, इति मध्योत्तराद्विरधर: ( ७ ) ; मन्द्रद्वयमध्यगततारोच्चारणे अधरमध्य द्विरुत्तरः, इत्यधरमध्य द्विरुत्तर : ( ८ ) ; त्रिप्रहारोद्भवे समवायज एतेऽष्टौ भेदाः | अनुबन्धस्तु सुगमः ॥ -१४२-१४७॥
इति चतुर्दश विस्तारजधातुभेदा:
(सु०) लध्विति । लघुगुरुस्वरूपैः घातैः करणाविद्धयोः धात्वोः क्रिया ; तयोर्मध्ये अल्पगुरुः करणः । तस्य पञ्च भेदान् क्रमेण लक्षयति - तद्भेदानिति । आदौ द्वौ लघू अन्ते गुरुः तदा रिभितः, इति रिभित: (१); आदौ चत्वारो
Scanned by Gitarth Ganga Research Institute