________________
२४४
संगीतरनाकरः एतद्धस्तसमायोगाद्वादनं वाद्यमुच्यते ।। ८८ ॥ छन्दो धारा कैकुटी च कङ्कालं वस्तु च द्रुतम् । गजलीलं दण्डकं चोपरिवाद्यमतः परम् ॥ ८९ ।। वाद्यं पक्षिरुतं चेति दशधा परिकीर्तितम् । खसितस्फुरितो यत्र क्रियेते बहुधा करो ।। ९० ॥ तारं च स्पृश्यते स स्याच्छन्दो यतिमनोहरः ।
इति च्छन्द: (१) स्खलितो मूर्छना चाथ कर्तरीरेफसंयुतौ ।। ९१ ।। उल्लेखरेफौ यत्रास्तां धारां ब्रूते हरप्रियः ।
इति धारा (२)
(९) दक्षिणहस्ततलेन तन्त्री हन्ति, इतरः वामहस्त: पुन: प्रदेशिन्या तर्जन्या तन्त्री यत्र स्पृशेत् असौ तलहस्तो भवेत् ; इति तलहस्त: (१०) अङ्गुष्ठकनिष्ठाभ्यां तन्त्र्या स्पर्श: अर्धचन्द्रः इत्यर्धचन्द्रः (११) अर्धचन्द्रतले कुञ्चिताङ्गुष्ठके सति, चतसृथ्वङ्गुलीषु कनिष्ठातर्जन्योः पार्वाभ्यां तन्त्र्या स्पर्शः प्रसारः; इति प्रसारकः (१२) करस्य ; हस्तस्य अङ्गुष्टसहितास्वङ्गुलीषु, किंचित् अल्पमाकुञ्चितासु तन्त्र्याम् कनिष्ठाया अङ्गुष्ठेन च स्पर्शः कुहरः ; इति कुहरः (१३) इति त्रयोदशोभयहस्तव्यापाराः||-७५-८७।।
(सु०) पूर्वोक्तं वाद्यं लक्षणपूर्वकं विभजते-एत दिति । एतेषां पूर्वोक्तानां हस्तव्यापाराणां घातादीनां समायोगात् मेलनात् यद्वादनं तद्वाद्यमित्युच्यते । तस्य छन्द आदयः पक्षिरुतान्ता दश भेदाः । तान् क्रमेण लक्षयतिखसितंति । यत्र खसितस्फुरितौ पूर्वोक्तौ करौ बहुधा मुहुर्मुहुः क्रियेते, तारस्थानं च स्पृश्यते स छन्दः; इति च्छन्दः (१) उल्लेखरेफौ, पूर्वोक्तो उलेखादिकरसंयुक्तौ, कर्तरीरेफसंयुतौ ; कर्तर्यादिरेफसंयुतौ च, अथ मूर्च्छना स्वलितश्च यत्र आस्तां तां धारामिति हरप्रियः ब्रूते ; इति धारा (२) शुकवक्त्रादयः
Scanned by Gitarth Ganga Research Institute