________________
पश्चमस्तालाध्यायः
तल्लयान्तरं मार्गलयाभ्यां द्विगुणं ततः ॥ १८४ ।।
वर्धमानाङ्गमित्यन्ये; अस्य प्रस्तारः कनिष्ठासारितेन व्याख्यात एव ।
___इति लयान्तरासारितम् अस्य ; कनिष्ठासारितस्य प्रस्तारो यथा-- यथाक्षरं चच्चत्पुटं यथाक्षरौ पितापुत्रकावधिकं प्लुतं च मिलित्वा तदधः, शता शता संता शता शता संता शता शतासमित्येतान् लिखेत् ॥
इति कनिष्ठासारितम (सु०) आसारितं विभज्य लक्षयति--आसारितमिति । कनिष्ठासारितं, लयान्तरासारितं, मध्यमासारितं, ज्येष्ठासारितमिति चत्वारो भेदाः । तत्र कनिष्ठासारिते शम्यापातादिः, चच्चत्पुटः, द्वौ पितापुत्रको, एते त्रयोऽपि यथाक्षराः । एतेषामन्ते संनिपाताः ॥ -१८२, १८३- ॥
इति कनिष्ठासारितम् (क०) अथ लयान्तरस्यासारितस्य लक्षणमाह-तद्वल्लयान्तरमित्यादि । ततः कनिष्ठासारितात् मार्गलयाभ्यां द्विगुणमिति शेषः । इतस्तद्वदित्यतिदिश्यते । तद्वत; कनिष्ठासारितवत् । अन्ये ; आचार्याः वर्धमानाङ्गमित्यस्यैव लयान्तरासारितस्य संज्ञान्तरमाहुः । कनिष्ठासारितापेक्षया वर्धमानान्यङ्गानि यस्येति तत्तथोक्तम् ॥ -१८४ - ॥ अस्यैव लयान्तरासारितस्य प्रस्तार: कनिष्ठासारितवत्कार्यः ।।
___ इति लयान्तरासारितम लयान्तरं लक्षयति-तद्वदिति । तद्वत ; कनिष्ठासारितवत् । तस्मात् ; कनिष्ठासारितात् , द्विगुणम् ; द्विगुणं मार्ग लयं च कर्तव्यम् । अन्ये ; आचार्याः इदमेव लयान्तरासारितं वर्धमानाङ्गमित्याहुः ॥ -१८४- ॥
इति लयान्तरासारितम्
Scanned by Gitarth Ganga Research Institute