________________
१०२
संगीतरत्नाकरः चतुष्कलोल्लोप्यकवदादौ मात्रोत्तरे भवेत् । शाखावरा पडङ्गा स्याद द्वादशाङ्गा परा ततः ॥ १७५ ॥ द्विकले पञ्चपाणौ सा प्रतिशाखा च तत्समा । किं तु बद्धा पदैरन्यैः शीर्ष मध्ये तयोर्भवेत् ॥ १७६ ।। मध्यान्तयोश्च वा भिन्नगीतेनैककलान्तरे । ततोऽनन्तरमेकोऽन्तो यद्वान्तो नात्र विद्यते ॥ १७७॥ आकारवर्ज शाखायां गीताङ्गानि शरीरवत् ।
(क०) अथोत्तरं लक्षयति-चतुष्कलोल्लोप्यकवदिति । उत्तरे गीतक आदौ प्रथमं मात्रा चतुष्कलोल्लोप्यकवद्भवेदिति, चतुष्कलोल्लोप्यके यथा द्विकले अष्टकला मात्रा द्विगुणा तु चतुष्कले मात्रेति द्विकलापेक्षया द्विगुणा षोडशकला मात्रोक्ता ; तथा अत्राप्युत्तरे षोडशकला मात्रा तत्पातकलायुक्ता कर्तव्यत्यतिदेशार्थः । शाखावरेत्यादि । षडङ्गा शाखा अवरा निकृष्टा । ततोऽपि हीनाङ्गा न कर्तव्येत्यर्थः । द्वादशाङ्गा शाखा परा उत्कृष्टा; ततोऽप्यधिकाङ्गा न कर्तव्यत्यर्थः । षडाद्याद्वादशसंख्यमङ्गानि विविधैककानि यथेष्टं कर्तव्यानि भवन्ति । ततो मात्रानन्तरं सा शाखा द्विकले पञ्चपाणौ गेया । प्रतिशाखा च तत्समेति । तया शाखया समा प्रतिशाखा च भवति । विशेषस्तु-अन्यैः पदंबद्धेति । व्याख्यातचरमेतत् । तयोः शाखाप्रतिशाखेयोः मध्ये शीर्षकं भवेत् । अथवा मध्यान्तयोश्च । भिन्नगीतेनेति । अस्मिन् शीर्षद्वयप्रयोगपक्षे मध्यशीर्षे यद्गीतं ततो भिन्नगीतमन्तशीर्षे कर्तव्यमिति । शीर्षके भिन्नधातुके भवत इति यावत् । शीर्षद्वयमप्येककलोत्तरे गेयम् । ततोऽनन्तरमेकोऽन्त इति । युगयुड्मिश्रेषु स्थितप्रवृत्तमहाजनिकेषु उल्लोप्यकोक्तेषु अन्तभेदेष्वेकोऽन्तः स्वेच्छया कर्तव्यः । यद्वा-अत्र ; उत्तरे, अन्तः; न
Scanned by Gitarth Ganga Research Institute