________________
३२
संगीतरत्नाकरः
[प्रकरणम् इत्यत्र पञ्चमषाडवस्य षड्जग्रामजात्युत्पन्नत्वेऽपि 'कलोपनतयान्वितः' इत्यनेन त्रिश्रुतिकस्य पञ्चमस्योपलम्भान्मध्यमग्रामसंबन्ध एव साक्षादवगतः ; षड्जग्रामसंबन्धस्तु मन्द्रव्याप्त्यानुमेय इति सर्वमवदातम् ।।
____ ग्रामरागादीनां मूर्छनाविशेषपरिज्ञाने विनियोगविशेषपरिज्ञाने च मतङ्गक्तमनुसंधेयम् । तद्यथा--- " ननु पूर्वोक्तानां रागाणां मूर्छनाविशेषनिर्देशः कस्मात् ज्ञायत इति चेत् ; उच्यते-आप्तवचनान्मूर्छनाविशेषो ज्ञायते। तथा चाह
कश्यपः
'ज्ञात्वा जात्यंशबाहुल्यं निर्देश्या मूर्छना बुधैः' इति" । " नन्वयं विनियोगविशेषः कस्माल्लभ्यते ? भरतवचनादेव लभ्यते । तथा चाह भरतः
'पूर्वरङ्गे तु शुद्धा स्याद्भिन्ना प्रस्तावनाश्रया ।
वेसरा मुखयोः कार्या गर्भ गौडी विधीयते ॥ साधारितावमर्श स्यात्संधौ निर्वहणे तथा । मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे तथा । गर्भे साधारितश्चैव ह्यवमर्श तु पञ्चमः । संहारे कैशिकः प्रोक्तः पूर्वरङ्गे तु षाडवः ॥ चित्रस्याष्टादशाङ्गस्य त्वन्ते कैशिकमध्यमः ।
शुद्धानां विनियोगोऽयं ब्रह्मणा समुदाहृतः ।।' इति"। " ननु गीतरागयोः को भेद इति चेत् ; उच्यते-दशलक्षणलक्षितं गीतं रागशब्देनाभिधीयते । गीतं चतुरङ्गेोपेतं ध्रुवायोगात्पञ्चविधम् । कुत एतद्विज्ञायते ? आप्तवचनात् । तथा चाह कश्यपः-~
'क्वचिदंशः क्वचिन्न्यासः षाडवौडुविते कचित् । अल्पत्वं च बहुत्वं च ग्रहापन्याससंयुतम् ॥
Scanned by Gitarth Ganga Research Institute