________________
द्वितीयो रागविवेकाध्यायः साक्षादवगते, तथा च प्रयोगे चतु:श्रुतिकपञ्चमोपलम्भात् षड्जग्रामसंबन्धे च साक्षादवगते द्विग्राम इति विशेषणमुपपन्नम् । येषां मतेऽस्य धैवतलोपो नेष्टः पञ्चमलोप इप्यते, तन्मते पूर्वोक्तन्यायेन पड्जग्रामाश्रित एवायम् । केवलपलोपपक्षेऽपि चतुःश्रुतिकपञ्चमोपलम्भात् षड्जग्रामसंबद्ध एव । यथाह मतङ्गः"भरतकोहलादिभिराचार्यै धैवतलोपस्यानिष्टत्वात् केचित् षड्जग्रामाश्रित एवायमिति मन्यन्ते । चतुःश्रुतिकस्य पञ्चमस्यात्रोपलम्भात् धैवतस्यास्तित्वं वा नास्तित्वं वा न विशेषप्रदर्शकं सर्वत्र । एवं च सति ग्राममूर्छनाभेदो वा धैवतेन न स्यादिति भावः” इति । नर्तरागस्य तु–'मध्यमापञ्चमीजातो नर्तोडशग्रहपञ्चमः' इति काश्यपाभिमताल्लक्षणान्मध्यमग्रामसंबन्ध एव ; 'धैवतीमपि तद्धेतुं दुर्गाशक्तिरभाषत' इति लक्षणात् , तदा पञ्चमस्य चतुःश्रुतिकत्वात् षड्जग्रामसंबन्ध एव । तथाचोक्तं मतङ्गेन-"दुर्गाशक्तिमतेऽयमेव रागो यदा पञ्चमीमध्यमाधैवतीभ्यो जायते तदा षड्जग्रामसंबद्ध एव बोद्धव्यः । कुतः ? पञ्चमस्य चतुःश्रुतिकत्वात् " इति । तदा मध्यमग्रामजात्युत्पन्नस्य तु पूर्वोक्त एव न्यायो द्रष्टव्यः । 'द्विग्रामः ककुभः' इत्युपदेशोऽपि ककुभस्य 'मध्यमापञ्चमीधैवत्युद्भवः ककुभो भवेत्' इति लक्षणाद् ग्रामद्वयजात्युत्पन्नत्वे सति पञ्चमस्य चतु:श्रुतिकत्वात् षड्जग्रामसंबन्धे साक्षादवगते, लक्षणेषु निगलोपस्यानुक्तत्वेऽपि मतङ्गेन प्रस्तारावसरे केषांचिन्मते च "ककुभकैशिकस्य वर्तनिका " इत्युपक्रम्य निगौ परित्यज्यौडवितत्वेनापि प्रस्तारे दर्शनात् । तत्र मध्यमग्रामसंबन्धश्च साक्षात्प्रतीयत इत्युपपन्न एव । उपरागेषु 'षड्जग्रामे रेवगुप्तो मध्यमार्षभिकोद्भवः' इत्यत्रापि रेवगुप्तस्य चतुःश्रुतिकपञ्चमोपलम्भात् षड्जग्रामसंबन्ध एव साक्षादवगतः । मध्यमग्रामसंबन्धस्तु तारव्यापकत्वेनानुमेय इति ।
'मध्यमग्रामसंबन्धो धैवत्यार्षभिकोद्भवः । रिन्यासांशग्रहे कापि मान्तः पञ्चमषाडवः ।।'
Scanned by Gitarth Ganga Research Institute