________________
संगीतरत्नाकर:
[ प्रकरणम् तु ' षड्जादिमूर्छन: ' इत्यत्र " मन्द्रोऽस्य ग्रहो न मध्यमः" इति मतङ्गवचनेनोत्तरमन्द्राया एव विवक्षितत्वात् तदायत्तमन्द्रव्याप्तिदर्शनेन षड्जग्रामसंबन्धानुमानादिति । तथा बोट्टरागस्य — ' बोट्टः स्यात्पञ्चमीषड्जमध्यमाभ्यां ग्रहांशकः ' इति लक्षणं श्रूयते । अतोऽस्यापि द्विग्रामत्वे ' मध्यमे तु बोट्टमालवकैशिको ' इत्युद्देशोऽत्र कृत इति विरोधः । परिहारस्तु – “बोट्टरागो यद्यप्युभयग्रामसंबन्धिजातिद्वयसमुत्पन्नः, तथापि पञ्चमस्य त्रिश्रुतिकत्वान्मध्यमग्रामसंबद्धः" इति मतङ्गोक्तः । अस्यार्थः--- त्रिश्रुतिके पञ्चमे श्रवणादस्य मध्यमग्रामसंबन्धः साक्षादवगतः । ' पञ्चमादिकमूर्छन: ' इत्यत्र पञ्चमा दिकयोर्ग्रामद्वयमूर्च्छनयोः शुद्धषड्जाहृप्यकयेोरेकस्थानत्वेऽपि " स्यात् पड्जमध्यमाजातेः पञ्चम्याश्च" इति मतङ्गवचनादत्र शुद्धषड्जाया एव विवक्षितत्वेन तत्प्रयुक्तमन्द्रव्याप्तषड्जग्रामसंबन्धोऽनुमेय इति । अथ टक्ककैशिकरागस्य -- ' धैवत्या मध्यमायोश्च संभूतष्टक्ककैशिकः' इति लक्षणश्रवणाद् ग्रामद्वयजात्युत्पन्नत्वेऽपि ' षड्जकैशिक - मध्यमात्' इत्युक्तन्यायेनैकग्रामव्यपदेशं हित्वा 'द्विग्रामष्टककैशिकः' इत्युद्देशः कथमिति चेत्—सत्यम् ; यद्यपि संपूर्ण स्वरस्यास्य प्रयोगे च चतुःश्रुतिकस्य पञ्चमस्योपलम्भात्पूर्वोक्तन्यायेन षड्जग्रामसंबद्ध एवायमिति मतङ्गमतम्, तथापि काश्यपमतेन निपादगान्धारयोर्लोपादयमौडुवित इति मतङ्गेनैवोक्तत्वात्तदा 'रिधाभ्यां द्विश्रुतिभ्यां च मध्यमग्रामगास्तु ते । हीनाश्चतुर्दशैव स्युः' इत्यौडुवशुद्धतानलक्षणमध्यमग्रामेऽपि साक्षादवगम्यत इत्याचार्यद्वयमतानुसारिणा निःशङ्कसूरिणा ‘द्विग्रामष्टककैशिकः' इति सुष्ठद्दिष्टम् । तथा हिन्दोलस्यापि - ‘धैवत्यार्षभिकावर्ज्यस्वरनामजातिजः ।
हिन्दोलको रित्यक्तः षड्जन्यासग्रहांशकः ' ॥
इति लक्षणवशादत्र स्वरनामकजातीनां पाडूजी गान्धारीमध्यमा पञ्चमीनिषादीनां ग्रहणेन ग्रामद्वयजात्युत्पन्नत्वे सति रिवत्यक्ततानकत्वान्मध्यमग्रामसंबन्धे
Scanned by Gitarth Ganga Research Institute