________________
द्वितीयो गगविवेकाध्यायः मतङ्गादिमुनिमतानुसारेण परिहियते । यथा शुद्धकैशिकमध्यमस्य'षड्जमध्यमया सृष्टः कैशिक्या च रिपोज्झितः' इति लक्षणं श्रूयते । तत्र षड्जमध्यमा षड्जग्रामसंबद्धा जातिः; कैशिकी तु मध्यमग्रामसंबद्धा ; ताभ्यां सृष्टस्य द्विग्रामत्वेनोद्देशे कर्तव्ये 'षड्जग्रामसमुत्पन्नः' इत्येकग्रामसमुत्पन्नत्वेनोद्देशः कृत इति विरोधः । परिहारस्तु--"ऋषभपञ्चमहीनत्वात् षड्जग्रामसंबद्ध एवायम् , मध्यमग्रामे ऋषभपञ्चमयोलोपो नास्तीति भावः" इति मतङ्गोक्तः । अस्यायमर्थः--
'सपाभ्यां द्विश्रुतिभ्यां च रिपाभ्यां सप्त वर्जिताः ।
षङ्जग्रामे पृथक्ताना एकविंशतिरौडवाः ॥' इत्यौड्डुवशुद्धतानलक्षणे षड्जग्राम एव रिपलोपस्य दृष्टत्वादन ग्रामभेदकपञ्चमाभावेऽपि औडवत्वं शुद्धतानविशेषस्यापि ग्रामभेदकत्वात् ; षड्जग्रामसंबद्ध एव तेनायमिति । तर्हि कैशिकजात्युत्पन्नत्वमस्य कुतोऽवगतमिति चेत्, क्रमलक्षणम् 'आद्यमूर्छनया युतः' इत्युच्यते; तत्र मध्यमाद्या मूर्छना सौवीरी ग्राह्या, न मत्सरीकृत् ; अन्यथा तारषड्जग्रहांशत्वविधानमस्यानुपपन्नं स्यात् ; ग्रहांशभूतस्य स्वरस्य मूर्छनान्तःपातित्वनियमात् । अतः पञ्चमलोपेऽपि मध्यमग्रामधर्मेण तारव्यापकत्वेन मध्यमग्रामसंबन्धोऽनुमीयत इति युक्त्यानुगृहीताद्भरतादिवचनाच कैशिक्युत्पन्नत्वमवगम्यत इति । एवं च सत्यनुमानतः प्रत्यक्षस्य प्राबल्यादत्र प्रत्यक्षावगतग्रामसंबन्ध एव व्यपदिश्यत इत्याचार्याणामभिप्रायोऽवगन्तव्यः । तथा गौडकैशिकस्य 'उद्धृतः कैशिकीषड्जमध्यमाभ्यां ग्रहांशकः' इति लक्षणं श्रूयते । तेनास्यापि द्विग्रामत्वे वक्तव्ये 'मध्यमे गौडकैशिकः' इति मध्यमग्रामसंबद्धत्वेनोद्देशो विरुद्धः । परिहारस्तु-"तथा प्रयोगे त्रिश्रुतिकत्वात्पञ्चमस्य चतुःश्रुतिकत्वाद्धैवतस्य मध्यमग्रामसंबद्ध एवासौ रागः ; यद्यपि ग्रामद्वयजातौ जातः, तथापि षड्जोऽस्य ग्रहो न मध्यमस्तथा दर्शनात्" इति मतङ्गोक्तः। अस्यार्थः---संपूर्णस्वरत्वादस्य क्रमात् त्रिचतुःश्रुतिकयोः पञ्चमधैवतयोरुपलम्भान्मध्यमग्रामसंबद्ध एवायम् । षड्जमध्यमे,त्पन्नत्वं
Scanned by Gitarth Ganga Research Institute