________________
२६
[ प्रकरणम्
इति । शुद्धकैशिकभिन्नकैशिकयोः स्वरसंस्थानस्याविशेषेऽपि तारस्वरव्याप्तिमतः शुद्धकैशिकान्मन्द्रस्वव्याप्तिमतो भिन्नकैशिकस्य शुद्ध भिन्नत्वम् ।
अथ श्रुतिभिन्नस्य लक्षणम्
66
'चतुःश्रुतिः स्वरो यत्र भिन्नो द्विश्रुतिको भवेत् । गान्धारो द्विश्रुतिश्चैव श्रुतिभिन्नः स उच्यते ॥”
66
इति । भिन्नतानरागे हि षड्जस्य श्रुतिद्वयं गृह्ण ति निषादः । भूतपूर्वन्यायेन षड्जेोऽपि चतुःश्रुतिरित्युच्यते । गान्धारस्तु द्विश्रुतिरेव । अतोऽस्य श्रुतिभिन्नत्वम् । अथ गौडानाम्
पूर्वोक्ताया गौडगीतेः संबन्धाद् गौडकाः स्मृताः । "
इति । अथ वेसराणाम् —
संगीतरत्नाकर:
66
'स्वराः सरन्ति यद्वेगात्तस्मा द्वेसरकाः स्मृताः । "
इति । अथ साधारणानाम्
---
इति ।। २३–२६ ॥
"L
'शुद्धा भिन्नःश्च गौडाश्च तथा वेगस्वराः परे । कलिता यत्र तान्वक्ष्ये सप्त साधारणांस्ततः ।। "
(सं०) रागाभिव्यक्त्यर्थमालापरूपकाक्षिप्तिका दर्शयिष्यंस्तासां लक्षणं कथयति — ग्रहांशेति । महत्वादीनां लक्षणानां यत्राभिव्यक्तिदृश्यते स रागालापः । विवादिस्वरान्पृथक्कृत्य रागालापलक्षणयुक्तं रूपकम् | मार्गत्रययुक्तेन चच्चत्पुटादितालेन स्वरपदयुक्ता या गीयते साक्षिप्तिका । ननु करणवर्तन्यावपि रागाभिव्यक्त्यर्थं वक्ष्येते; तयोर्लक्षणं कथं नोक्तम् ? अत आह— नोक्ते इति । तयोर्लक्षणं प्रबन्धाध्याये वक्ष्यत इत्यर्थः । मतङ्गादिमतेन भाषाविभाषान्तरभाषास्वेवास्ति रूपकम् ; तस्मात्तास्वेव रूपकं दर्शयिष्यामः ॥ २३-२६ ॥
Scanned by Gitarth Ganga Research Institute