________________
२]
इति । अथ भिन्नानाम् --
द्वितीयो रागविवेकाध्यायः
“ श्रुतिभिन्नो जातिभिन्नः शुद्धभिन्नः स्वरस्तथा । चतुर्भिर्भिद्यते यस्मात्तस्माद्भिन्नक उच्यते ॥ "
ननु भिन्नशब्देन किमभिधीयते ? किं विदारिक इत्यर्थः, किमेतस्मादयं व्यतिरिक्त इत्यर्थो वा ? एतन्न वाच्यम्; यतोऽत्र विकृत उच्यते । विकृतत्वं च पूर्वोक्तश्रुतिभिन्न इत्यादिलक्षणात् " इति ।
तत्रादौ स्वरभिन्नस्य लक्षणम् -
66
'यदा वादी गृहीतः स्यात्संवादी च विमोक्ष्यते । विवादी चानुवादी च स्वरभिन्नः स उच्यते ॥ "
इति । विवादी चानुवादी च गृहीतः स्यादित्यनुषङ्गः । शुद्धषाडवापेक्षया भिन्नषड्जभिन्नपञ्चमयोः स्वरप्रयोगभेदात्स्वरभिन्नत्वम् ।
अथ जातिभिन्नस्य लक्षणम् -
" जातीनामंशकः स्थायः स्वल्पकस्तु बहुस्तथा ।
अल्पत्वं च बहुत्वं च प्रयोगाल्पबहुत्वतः । सूक्ष्मातिसूक्ष्मैर्वक्रैश्च जातिभिन्नः स उच्यते ॥ "
इति । शुद्धकैशिकमध्यमापेक्षया भिन्न कैशिकमध्यमस्य ग्रहांशादिसाम्येऽपि स्वस्व - जनकजातिगतवर्णभेदात्सूक्ष्मातिसूक्ष्मस्वरप्रयोगभेदाच्च भिन्न कैशिकमध्यमस्य जाति
भिन्नत्वम् ।
अथ शुद्धभिन्नस्य लक्षणम्
4
२५
""
'परित्यजन्नन्यजातिं स्वजातिकुलभूषणः ।
स्वकं कुलं तु संगृहशुद्धभिन्नः प्रकीर्तितः ॥”
Scanned by Gitarth Ganga Research Institute